SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ २४० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ टी०-विविक्तशय्यासनता नामेति । शय्याग्रहणेन प्रतिश्रय-फलक-संस्तारकग्रहणम् । आसनग्रहणेन पीठसिकादिविविक्तं गर्हितजनसम्पातरहितं अचलाशुषिरादि च । विविक्तं च तत् शय्यासनं च विविक्तशय्यासनं तद्भावो विविक्तशय्यासनता । नामशब्दो वाक्यालङ्कारार्थः अभिधानवचनो वा । अस्यैव विवरणमेकान्तेऽनाबाध इत्यादि, पर्यायकथनेन व्याख्यानम् । विविक्तम्-एकान्तम् अनाबाधम् असंसक्तं स्त्रीपशुपण्डकवर्जितमिति पर्यायाः । अथवा एकान्ते इति । 'अम गत्यादिषु' (पा० धा०४६६) "सर्वे गत्यर्था ज्ञानार्थाः" इति वचनादमनम्-अन्तः श्रुतज्ञानं तद्व्यापार एवैको यत्र वाचना-प्रच्छनादिभिरुत्सर्पति तदेकान्तम् । अनावाधे इति। आबाधः-शरीरोपघातः, स न विद्यते यत्र तदनाबाधम् । असंसक्ते इति सूक्ष्मस्थूलजन्तुरहिते। स्त्रीपशुपण्डकवर्जित इति । स्त्रियो-मानुष्यः पशवो-गो-महिष्य-जाविकाद्याः पण्डका-नपुंसकानि। वस्तुतश्चारित्रोपघात एवैष सर्वः॥ तदेवैकान्तादिगुणयुक्तं प्रतिश्रयादि दर्शयति भा०-शून्यागार-देवकुल-सभा-पर्वतगुहादीनामन्यतमस्मिन् समाध्यर्थ संलीनता ॥ . टी०--शून्यागारेत्यादिना। शून्यागारं शून्यगृहमदोषम् । देवकुलं दुर्गाद्यायतनादि । समा पत्र प्राङ्मनुष्याः समवायमकक्षत । सम्प्रति तु न तत्र समवयन्ति । पर्वतगुहा-पर्वतविवरं गिरिनगरादाविव लयनानि । आदिग्रहणादन्यदपि जीर्णोद्यानमध्यवर्ति मण्डपकादि परिगृह्यते । एषां यथोक्तानां अन्यतमस्थाने व्यवस्थानम् । किमर्थमिति चेत् समाध्यर्थम् । समाधिर्ज्ञानदर्शन-चारित्र-तपो-वीर्यात्मकं पञ्चधा । समाधानं समाधिः ज्ञानादीनामपरिहाणिईद्धिश्च । इत्थमियं संलीनता तपोविशेषः । इन्द्रियाणि संयम्य सस्वान्तानि क्रोधादिकषायकदम्बकं च विविक्तं शय्यासनमासेवमानस्य संलीनता भवति । प्राप्तेष्विन्द्रियविषयेषु भवितव्यमरक्तद्विष्टेन कषायसंलीनता। क्रोधस्य तावदुदयनिरोधः, प्राप्तोदयस्य च वैफल्यापादनम्, एवं शेषाणामपि । तथा अकुशलमनोनिरोधः कुशलचित्तोदीरणं वा । एवं वागपि वाच्या। कायव्यापारस्तु समुत्पन्नप्रयोजनस्य यत्नवतः संलीनताव्यपदेशमश्नुते । विना तु प्रयोजनेन निश्चलासनमेव श्रेयः। विविक्तचयों तु भाष्यकृतैवोक्ता। भाल-कायक्लेशोऽनेकविधः। तद्यथा-स्थानवीरासनोत्कटुकासनैकपार्श्वदण्डायतशयनातापनाप्रावृतादीनि । टी-कायक्लेशोऽनेकविध इत्यादि । कायः-शरीरं तस्य क्लेशो-बाधनम् । कायात्ममोरभेदः संसार्यवस्थायामन्योन्यानुगतत्वात् क्षीरोदकादेरिव, अतः कायबाधायामात्मनो बाधा १ एव एतत्सर्व ' इति च-पाठः । २ निरूपयति' इति ड-च-पाठः। ३ 'मकृषत ' इति च-पाठः । 'दाहरणं वा' इति उ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy