SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २३९ सूत्र १९] . स्वोपज्ञभाष्य-टीकालङ्कृतम् चानुमोदनीयः। स्वयमेव कुर्वन् मुनिना साधुभ्यो दास्यामीति, एवं कृतकारितानुमतिभिः मांसभक्षणे निषेधः पारा र परिहारः सर्वथा मुमुक्षोरुपदिष्टः शासनप्राणायिना सर्वज्ञेनेति । अथ यत् या कृतकारितानुमतिपरिशुद्धमोदनादिवत् तत् किमिति न वर्ण्यते ? । तदपि गाग्रंपरिहारार्थ यतयः परिहरन्त्येव द्रव्यादिचतुष्टयापेक्षाः ।। ननु चैवमोदनादयोऽपि गायपरिहारिणा त्याज्याः १, नैतदेवम्, मांसरसो हि सर्वरसातिशायी वृष्यतमच किल। तत्र चावश्यंभावि गाय॑म् । न चैवमोदनादयः॥ ननु च क्षीर-दधि घृतादयोऽपि रसा वृष्या एवेति, उच्यते-तेऽपि हि मुमुक्षोः सर्वदा नैवानुज्ञाता भगवद्भिः। यदाऽप्यनुज्ञातास्तदापि मात्रया ततायोभाजनप्रक्षिप्तधृतादिबिन्दुक्षयवन्न चरणबाधायै प्रत्यलाः। परेणाप्यवश्यमिदमभ्युपेयं, न नियोगतोऽभ्यवहर्तव्यं सर्वमेव, त्रिकोटिपरिशुद्धश्चाहिगजाश्वनरमांसाभ्यवहारप्रसङ्गात् । तस्मान सर्वमेव त्रिकोटिपरिशुद्धमभ्यवहार्यम् । मद्यपाने चातिप्रसङ्गः । अथ मद्यपानं प्रकृतिसावधमिति परिहियते । एतदप्यसत् प्राणातिपातसम्बन्धात् रसातिशयगाध्योच । मांसमपि प्रकृतिसावद्यमेव । अपि च-मद्यमुपभुञ्जते युक्तितो येन न तेषु किश्चिदवद्यमुपलभ्यते । तस्मान्मांसरसपरित्यागः श्रेयानिति । मधु त्रिप्रकारम्-माक्षिकं कौतिक मधुनस्त्रविध्य भ्रामरं च । एतदपि प्राण्युपघातनिष्पन्नमेवेति परिहार्य द्रव्यादिचतुष्टनवनीतस्य च चातुर्विध्यम् । चयापेक्षयेति । गो-ऽमहिष्य-ज्जा-विकानां नवनीतं चतुर्धा । स चापि रसो वृष्य इति परिहार्यः। आदिग्रहणात् क्षीर-दधि-गुड-धृत-तेलाख्याः पश्चावरुध्यन्ते विकृतयः। तत्र क्षीरविकृतिः पञ्चप्रकारा गो-महिष्यःऽजा-विको-ष्ट्रीणाम् । दधिविकृतिरपि करभीवर्जानां चतुःप्रकारैव । गुडविकृतिरिक्षुविकारः। फाणितादि प्रसिद्धं, खण्डक्षीरादिविकृती शर्करावर्जः । दधिविकृतिरिव घृतादिविकृतिरपि चतुर्विधैव । तैलविक" तिरपि चतुर्विधा । तिला-ऽतसी-सिद्धार्थक-कुसुम्भकाख्यानि तैलानि । दशमी धृताधवगाहनिष्पना । अवगाह्यकविकृतिरपूपादिका । सापि आदिग्रहणादागृहीतैव । एवमेतासां रसविकृतीनां प्रत्याख्यानं तपः । एता हि वृष्यत्वाद् वाजीकरणप्रसिद्धेश्च, न सर्वदाऽभ्यवहार्याः, चित्तविकारहेतुभूतत्वात् । एवं च विकृतयोऽन्वर्थसज्ञां लमन्ते । अतो मुमुक्षुणा ललनाऽङ्गप्रत्यङ्गविलोकनवत् प्रत्याख्येयाः । इत्थं च रसपरित्यागलक्षणं विशिष्टं तपः । विरसरूक्षाद्यभिग्रहश्चेत्यनेन विनापि विकृतिभिः शक्यं प्राणसंरक्षण यतिनेति दर्शयन्ति। विगतरसं विरसम्, विकृतिभिरसंसृष्टं विरसं वा । तस्माद् रसात् प्रच्युतं रूक्षं कोद्रवाम्लपर्णकम् । आदिग्रहणादन्तप्रान्तपरिग्रहः ॥ भा--विविक्तशय्यासनता नाम एकान्तेऽनाबाधेऽसंसक्ते स्त्रीपशुपण्डकवर्जिते । 'प्रणायिमा ' इति उ-पाठः । २ षण्डकविवर्जिते' इति घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy