________________
शेषः
२२८ तत्त्वार्थाधिगमसूत्रम्
[ अध्यापः ९ भा-वृत्तिपरिसख्यानमनेकविधम् । तद्यथा-उत्क्षिसनिक्षितान्तप्रान्त. पर्यादीनां सक्तुकुल्माषौदनादीनां चान्यतममभिगृह्यावशेषस्य प्रत्याख्यानम् । टी०-वृत्तिसङ्ख्यानमनेकविधमित्यादि । वर्त्यते यया सा वृत्तिः-भैक्षं तस्याः
परिसङ्ख्यानं-परिगणनं, आगमविहितोऽभिग्रहो वा परिगणनं. - दत्तीनां भिक्षाणां वा । तत्र दत्तिर्यदेकमुखेन प्रक्षिपति पात्रकादी
_ पटलकेन वा दोहनकादिना वा । भिक्षा तु हस्तेनोत्क्षिप्य यद ददाति कडुच्छुकेन ओदङ्किकया वा तत् परिगणनम्-एका दत्तिं ग्रहीष्याम्यद्य द्वे तिस्रो वा इत्यादि । एवं भिक्षाणामपि परिगणनं गोचरप्रवेशकाले करोति । तद्यथेत्यादिना अभिग्रहा
नेकविधत्वं दर्शयति-उत्क्षिप्सनिक्षिप्तान्तेत्यादिना । उत्क्षिप्त पटलका
दिकं कडुच्छुकादिनोपकरणेन दानयोग्यतया दायकेनोद्यतं तादृशं यदि लप्स्ये ततो ग्रहीष्यामि, नावशिष्टमित्युत्क्षिप्तचों-उत्क्षिप्ताभ्यवहरणमिति । तथा परो निक्षिप्तचेंरकः पूर्वोक्तविपरीतग्राही । इत्थमुत्क्षिप्तचर्यादीनामन्यतममभिग्रहमभिगृह्य पर्यटति मिक्षायै । सक्तुकुल्माषौदनादीनां चेत्यनेन द्रव्य-क्षेत्र-काल-भावविभक्तानभिग्रहान् सूचयति । तत्र द्रव्यतः सक्तुकुल्माषानशुष्कौदनम् । आदिशब्दात् तनं एककमाचाम्लपर्णकं मण्डकान् वा ग्रहीष्ये, क्षेत्रतो देहली जङ्घयोरन्तः कृत्वा, कालतो विनिवृत्तेषु सर्वभिक्षाचरेषु, भावतो हसनरोदनादिव्यापृतो निगडादिबद्धोऽक्ताक्षः कृततमालपत्रो वा दायको ददाति यत्, तदेवेमन्यतमं द्रव्याद्यमिगृह्य शेषप्रत्याख्यानं वृत्तिपरिसङ्ख्यानं तप इति ।।
भा०–रसपरित्यागोऽनेकविधः । तद्यथा-मद्य-मांस-मधु-नवनीतादीनां रसविकृतीनां प्रत्याख्यानं विरसरुक्षाद्यभिग्रहश्च ॥
टी०-रसपरित्यागोऽनेकविध इत्यादि । रस्यन्ते-खाद्यन्तेऽतिशयेनेति रसाः। तत्परित्यागो हि तत्परिहारः । सोऽनेकप्रकारस्तद्बहुत्वादेव । तद्यथेत्यादिना रसान् प्रत्यक्षीकरोति, मद्य-मांसेत्यादि । तत्र मद्यं गौडपिष्टद्राक्षाखजूरादिद्रव्यसम्भारोपजातमदसामर्थ्य विषगरादिवज्जीवमस्वतन्त्रं करोति, अस्वतन्त्रश्च तद्वशः कार्याकार्यविवेकशून्यः प्रभ्रष्टस्मृतिसंस्कारो न किञ्चिन्नाचरति गर्हितम् । [ अतो नित्यावपरिहार्यद्रव्यक्षेत्रकालभावापेक्षयाऽनुयुक्तितः शुद्धनागमानुसारिणा यथायुक्तमाचरणीयं,] सर्वथा तत्परित्यागस्तपः। मांसं तु प्राणिशरीरावयवः, तच्च प्राणव्यपरोपणमन्तरेण दुष्प्रापम् । प्राणातिपातश्च स्वशरीरसम्भूतदुःखानुमानेन न शक्यः प्राज्ञेन कर्तु, स्वयं न करोतीत्यन्यः कार्यत इत्येतदपि न, अन्योऽपि नैव कार्यते । न
१ 'तान्तप्रान्त ' इति घ-पाठः । २ 'कटुच्छकेन ' इति उ-च-पाठः । ३ ' उदङ्किकया ' इति ग-च-पाठः । ४' चरकां' इति ड-पाठः ५' देवमद्रव्या' इति उ-पाठ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org