________________
नशनम्
सूत्रं १९) .स्वोपज्ञभाष्य-टीकालङ्कृतम्
२३७ प्रवज्यादिप्रतिपत्तिक्रमेणैवायुषः परिहाणिमवबुध्य आत्तनिजोपकरणः स्थावरजङ्गमप्राणि
विवर्जितस्थण्डिलस्थायी एकाकी कृतचतुर्विधाहारप्रत्याख्यानः छायात
- उष्णं उष्णाच्छायां सङ्क्रामन् सचेष्टः सम्यग्ज्ञानपरायणःप्राणान् जहाति। एतदिङ्गिनीमरणमपरिकर्मपूर्वकं चेति । भक्तप्रत्याख्यानं तु गच्छमध्यवर्तिनः, स कदाचित
त्रिविधाहारप्रत्याख्यायीति, कदाचिच्चतुर्विधाहारप्रत्याख्यायी, पर्यन्ते कृतसमस्तप्रत्याख्यानः समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीराचुपकरणममत्व:
स्वयमेवोद्राहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वा उद्वर्तनपरिवर्तनादि कुर्वाणः समाधिना करोति कालमेतद् भक्तप्रत्याख्यानं मरणमिति ॥
उक्तमनशनम् । अवमौदर्यमुच्यते
भा०-अवमौदर्यम् । अवममित्यूननाम । अवममुदरमस्य ( इति ) अवमोदरः । अवमोदरस्य भावः अवमौर्यम् ॥
टी-अवमौर्यम् । अवममित्यूननामेत्यादि । अवमं न्यूनमुदरमस्येत्यवमोदरः तद्भावोऽवमौदर्य-न्यूनोदरता॥ कवलप्रमाणनिरूपणार्थमाह
भा०-उत्कृष्टावकृष्टौ च वर्जयित्वा मध्यमेन कवलेन त्रित्रैविध्यम्
विधमवमौदयं भवति । तद्यथा-अल्पाहारावमवौदर्य, उपा
- विमौदर्य, प्रमाणप्राप्तात् किश्चिदूनावमौदामिति । कवलपरिसङ्ख्यानं च प्रार द्वात्रिंशद्भयः कवलेभ्यः ॥
टी-उत्कृष्टावकृष्टावित्यादि । उत्कृष्टो विकृत्य मुखविवरं यत्नतो महाप्रमाणं कृत्वा यः प्रक्षिप्यते, अवकृष्टस्त्वत्यन्तलघुकः, तौ वर्जयित्वा मध्यमेन कवलेनाविकृतस्वमुखप्रमाणेनावमौदर्य कार्यम्, तच्च त्रिविधमवमौदर्य तद्यथेत्यादिना प्रत्यक्षीकरोतिअल्पाहारावमौदर्यमित्यादि । तत्राहारः पुंसो द्वात्रिंशकवलप्रमाणः । कवलाष्टकाभ्यवहारोऽल्पाहारावमौदर्यम् । उपार्धावमौदर्य द्वादश कवलाः, अर्धसमीपम् उपाध, द्वादश कवला:, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति । प्रमाणप्राप्ताहारो द्वात्रिंशत्कवलः । स चैकेन कवलेन न्यूनः किश्चिदूनावमौदर्यं भवति । इतिशब्दः प्रकारार्थः । प्रमाणप्राप्तावमौदर्य चतु
.. विंशतिः कवलाः । [भागद्वयावमौदर्य षोडश कवला:] त्रिविधे चावमौदर्ये पुरुषप्रमदानां एकैककवलहासेन बहूनि स्थानानि जायन्ते । सर्वाणि च तान्यवमौदर्य
विशेषाः । कवलपरिसङ्ख्यानं चेति पुरुषस्य द्वात्रिंशत् , योषितोऽष्टाविंशतिः, अतो विभागः कार्यः॥ .
१' साधुकृत ' इति ग-पाठः। २ 'ममूनमुदर० ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org