________________
२३६
तवार्थाधिगमसूत्रम् -
[अन्यायः भा०-अनशनं १ अवमौदर्य २ वृत्तिपरिसङ्ख्यानं ३ रसपरित्यागः ४ विविक्तशय्यासनता ५ कायक्लेशः ६ इत्येतत् षविषं बाह्यं तपः ॥ “सम्यम् योगनिग्रहो गुप्तिः" (अ० ९, सू० ४) इत्यतःप्रभृति सम्यगित्यनुवर्तते, संयमरक्षणार्थ कर्मनिर्जराथं च चतुर्थषष्ठाष्टमादि सम्यगनशनं तपः॥
टी०-अनशनमवमौर्य वृत्तिपरिसङ्ख्यानमित्यादि । प्राक् प्रकृतः सम्यकशब्दो. ऽनुवर्तते । स च विशेषणम्-सम्यगनशनं सम्यगवौदर्यम् , एवं च सर्वत्र वृत्तिपरिसङ्ख्यानादिष्वपि । किं पुनर्विशेषणेन व्यावय॑ते १, नृपशत्रुतस्करकृताहारनिरोधादि तथा पक्लिनिमित्त
माजीवादिहेतोः उपहतभावदोषस्य हि न संयमरक्षणं न च कर्मनिर्जरेत्यतः सम्यग्ग्रहणे हेतवः सम्यग्ग्रहणम् । यस्तु प्रवचनोदितशु(श्रा)द्धतया स्वसामर्थ्यापेक्षो द्रव्यक्षे.
त्रकालभावाभिज्ञः क्रियाश्चाहापयनहोरात्राभ्यन्तरकार्योः करोत्यनशनादितपः स कर्मनिर्जराभाए भवतीत्येवैमर्थमनुवय॑ते । सम्यग्ग्रहणं पालतपःप्रतिषेधार्थ च । संयमः सप्तदशभेद उक्तः (अ०९, सू०६), चारित्रं वा पञ्चप्रकारं संयमः। तत्परिपालनाय रसत्यागादि सम्यक्तपो भवति । कर्म ज्ञानावरणादि तस्य निर्जरा-आत्मप्रदेशेभ्यः परिशांटनम् । यथोक्तम् (प्रशमरतौ श्लो० १५९)-यद्वद् विशेषणादुपचितोपीत्यादि । तपश्च प्रायः सर्व समये प्रतीतं शुभाशुभकर्मक्षयायेत्येवं कर्मनिर्जरणार्थ चेत्युक्तम् । चशब्दः समुच्चयार्थः । तत्रानशनमादावेव, आहारगवेषणे यत्नवानपि संयतः केनचिदतीचारकलङ्केन युज्यत एवेति तत्परिहारायोपन्यस्तं सप्रपञ्चं चतुर्थषष्ठाष्टमादीत्यादिना, अशनम्-आहारस्तत्परित्यागोऽनशनम् । तद् द्विधा-इत्वरं यावज्जीवकं च। तत्रेत्वरं इत्वरमनशनम्न
- नमस्कारसहितादि । चतुर्थभक्तादि तु भाष्यकारेणोपन्यस्तमतीत्वर
___ त्वादितरदुपेक्षितम् चतुर्थभक्तादि षण्मासपर्यवसानमित्वरमनशनं भगवतो महावीरस्य तीर्थे । यावज्जीविकं तु त्रिविधम् –पादपोपगमनं, इङ्गिनी, भक्तप्रत्याख्यान
र मिति । तत्र पादपोपगमनं द्विधा-सव्याघातमव्याघातं च । सतोऽप्याशनस्य भेदभदाः युषो यदोपक्रान्तिः क्रियते समुपजातव्याधिनोत्पन्नमहावेदनेन तत्
सव्याघातम् । निर्व्याघातं तु प्रव्रज्याशिक्षापदादिक्रमेण जराजर्जेरितशरीरः करोति यदुपहितचतुर्विधाहारप्रत्याख्यानो निर्जन्तुकं स्थण्डिलमाश्रित्य पादप इवैकेन पादपोगमना
. पार्श्वन निपत्याऽपरिस्पन्दस्तावदास्ते प्रशस्तध्यानव्यापृत्तान्तःकरणो - यावदुत्क्रान्ताः प्राणास्तदेतत् पादपोपगमनाख्यं अनशनम् । इङ्गिनी
श्रुतविहितक्रियाविशेषस्तद्विशिष्टं मरणमिङ्गिनीमरणम् । अयमपि हि १'व्यावृत्यते । इति ङ-पाठः। २ 'त्येवमनु ' इति ङ-पाठः । ३ 'शटनं ' इति च-पाठः । ४ सम्पूर्ण पर्य यथा
“यद्वद् विशोषणादुपचितोऽपि यत्नेन जीयते दोषः। तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥"
नशनम्
Jair Education International
For Private & Personal Use Only
www.jainelibrary.org