________________
सूत्र १९) . स्वोपक्षमाय-टीकालङ्कृतम्
२३५. सक्लिष्टाभ्यवसायस्य संक्लिष्ट, सूक्ष्मः-लक्ष्णावयवः सम्परायः-कषायः संसारभ्रान्तिहेतुर्यत्र तत् सूक्ष्मसम्परायम् । स चोपशान्तकषायोऽपि स्वल्पप्रत्ययलाभाद् दवदग्धाञ्जनद्रुमवदुदकासेचनादिप्रत्ययलाभादरादिरूपेण भस्मच्छन्नानिवद् वा वारिवन्धनादिप्रत्ययतः स्वरूपमुपदर्शयति, तद्वदसौ मुखवस्त्रिकादिषु ममत्वसमीरणेन सन्धुक्षमाणः कषायानिश्चरणेन्धनमामूलतो दहन प्रख्याव्यते प्रतिविशिष्टाध्यवसायादिति । क्षायिकी तु श्रेणिरनन्तानुबन्धिनो मिथ्यात्वमिश्रसम्यक्त्वानि अप्रत्याख्यानप्रत्याख्यानावरणाः नपुंसकस्त्रीवेदौ हास्यादिषट्कं पुंवेदः संज्वलनाथ, अस्याश्चोरोहकः अविरतदेशप्रमत्ताप्रमत्ताविरतानामन्यतमो विशुध्यमानाध्यवसायः। स
र चानन्तानुबन्धिनो युगपदेव क्षपयत्यन्तर्मुहूर्तेन । ततः क्रमेण दर्शनत्रिकं, क्षपकश्रेणीवर्णनम्
" ततोऽप्रत्याख्यानप्रत्याख्यानावरणांश्च युगपदेव क्षपयितुमारभते । विमध्य
- भागे चैषामिमाः षोडश प्रकृतीः क्षपयति-नरकतिर्यग्गती एतदानुपूज्यों एकद्वित्रिचतुरिन्द्रियजातीयातपोद्दयोतस्थावरसाधारणसूक्ष्मनामानि, ततो निद्रानिद्राप्रचला. प्रचलास्त्यानीः , ततोऽष्टानां शेषं, ततोऽनुदीर्ण वेदं जघन्यं पूर्ववत् , ततो हास्यादिषट्कं, ततोऽप्युदितं वेदं, ततः संज्वलनानामेकैकं क्रमेण क्षपयति, सावशेषे च पूर्वसंज्वलनकषाये उत्तरं क्षपयितुमारभते । सर्वत्र पूर्वशेषं चोत्तरेणैव सह क्षपयति यावत् संज्वलनलोभसङ्ख्येयभागः। तमपि सख्येय( भाग)मसङ्ख्यानि खण्डानि कृत्वा प्रतिसमयमेकैकं खण्ड क्षपयति, तदा[पि] सूक्ष्मसम्परायसंयमी भवति । समस्तमोहनीयोपशमे तु एकादशगुणस्थानप्राप्त उपशान्तकषायो यथाख्यातसंयमी भवति । क्षपकस्तु सकलमोहार्णवमुत्तीर्णो निग्रन्थो यथाख्यातसंयमी जायते । अथशब्दो यथाशब्दार्थे । यथा ख्यातः संयमो भगवता तथाऽसावेव, कथं च ख्यातः १, अकषायः, स चैकादशद्वादशयोर्गुणस्थानयोः, उपशान्तत्वात् क्षीणत्वाञ्च कषायाभाव इति । एवं पञ्चविधं चारित्रमष्टविधकर्मचयरिक्तीकरणात् । तच पुलाकादिषु विस्तरेण वक्ष्यामः पुलाकादिसूत्रे उपरिष्टात् ( अ० ९, सू० ४८), पुलाकादिभेदेषु सामायिकादिसंयमः पश्चप्रकारोऽपि पञ्चसु पुलाकादिनिग्रन्थेषु विस्तरेण-प्रपञ्चेन भावयिष्यत इति ॥१८॥ उक्तं चारित्रं, प्रकीर्णकं च तपः, सम्प्रत्यनशनादिकं तपो भण्यते
सा सूत्रम्-अनशना-ऽवमौदर्य-वृत्तिपरिसङ्ख्यान-रसपरिपइविधता त्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तपः॥९-१९॥
टी-द्विविधं तपः-बाह्यमभ्यन्तरं च, तत्र बाह्याभ्यन्तरशब्दार्थः प्राइनिरूपितः। तदेकैकं पोढा । तत्र बाघस्य तावद् भाष्यकारो भेदानाचष्टे षडपि सूत्रं विवृण्वन्
बाह्यतपसः
१ ‘न्धनादिमामूल' इति घ-पाठः । २ · स्त्वारोहकः' इति च-पाठः । ३ ' जातिरातपो' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org