________________
२३४ तत्वार्थाधिगमसूत्रम्
[अध्यायः ९ यैरिति परिभुक्ततादृग्विधतपसः, निर्विष्टकायिका इत्यर्थः । परिहारविशुद्धिकं च तपः प्रतिपन्नानां नवको गच्छः । तत्र परिहाराचारिणश्चत्वारोऽनुपरिहारिणोऽपि चत्वारः कल्पस्थित एकः, वाचनाचार्य इत्यर्थः । सर्वेऽपि ते श्रुताद्यतिशयसम्पन्नाः तथापि रुच्या (रूढ्या ?) कल्पस्थित एकः कश्चिदवस्थाप्यते । तत्र ये कालभेदेन विहितं तपोऽनुतिष्ठन्ति ते परिहारिणः । नियताचाम्लभक्तास्त्वनुपरिहारिणस्तेषामेवाभिसराः, तपोग्लानानां परिहारियां सहायके वर्तन्ते । कल्पस्थितोऽपि नियताचाम्लभक्त एव । तच तपः परिहारिणां ग्रीष्मे चतुर्थषष्ठाष्टमभक्तलक्षणं जघन्यमध्यमोत्कृष्टं क्रमेणैव । शिशिरकाले षष्ठाष्टमदशमानि जघन्यमध्यमोत्कृष्टानि । वर्षास्वष्टमदशमद्वादशभक्तानि जघन्यमध्यमोत्कृष्टानि । पारणाकालेऽप्या
चाम्लमेव पारयन्ति । उक्तविधानं तपः षण्मासं कृत्वा परिहारिणोऽनुपरिहारविशुद्धि
परिहारित्वं प्रतिपद्यन्ते । अनुपरिहारिणश्च परिहारिणो भवन्ति । तेऽपि संयमस्य सीमा
- षण्मासान् विदधते तत् तपः, पश्चात् कल्पस्थित एकाक्येव षण्मासावधिक परिहारतपः प्रतिपद्यते । तस्य चैकोऽनुपरिहारी भवति, तन्मध्ये अपरश्चैकः कल्पस्थित इति, एवमेष परिहारविशुद्धः संयमोऽष्टादशभिर्मासैः परिसमाप्तिमुपयाति । परिसमाते तु तस्मिन् पुनस्तदेव केचित् परिहारतपः प्रतिपद्यन्ते स्वशक्त्यपेक्षाः, केचिद् वा जिनकल्पम् , अपरे तु गच्छमेव वा विशन्तीति । परिहारविशुद्धिकाच स्थितकल्प एव प्रथमचरमतीर्थकरतीर्थयोरेव, न मध्यमतीर्थेष्विति । सूक्ष्मसम्परायसंयमस्तु श्रेणिमारोहतः प्रपततो वा भवति । - श्रेणिरपि द्विप्रकारा-औपशमिकी क्षायिकीच। तत्रौपशमिकी अनन्तानुबन्धिनो मिथ्यात्वादित्रयं नपुंसकत्रीवेदौ हास्यादिषट्कं पुंवेदः अप्रत्याख्यानावरणाः संज्वलनाश्चेति । अस्याश्च आरम्भकोप्रमत्तसंयतः। अपरे तु ब्रुवते-"अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतमः प्रारभते,
र स चानन्तानुबन्धिनश्चतुरोऽपि समकमेव शमयति अन्तर्मुहूर्तेन, ततो
का दर्शनत्रिकं, ततोऽनुदीर्ण पुमानारोहनपुंसकवेदं, ततः स्त्रीवेदं, योषिदारोश्रेणी
" हन्ती, प्राग नपुंसकवेदं, ततः पुरुषवेदं, तृतीयप्रकृतिरधिरोहन प्राक् स्त्रीवेदं, ततः पुरुषवेदं, ततोऽपि हास्यादिषट्कं ततः (नपुंसक )पुंवेद, ततोऽप्रत्याख्यानानां प्रत्याख्यानावरणानां च युगपदेव द्वौ क्रोधौ संज्वलनक्रोधान्तरितौ शमयति, पश्चात् संज्वलनक्रोध, पुनी मानौ, पश्चात् संज्वलनमानं, पुनझै माये, ततः संज्वलनमायां, पुनद्वौ लोभी, पश्चात् संज्वलनलोभम् । सङ्ख्येयानि खण्डानि कृत्वा क्रमेण चोपशमय्य पश्चिमखण्डमसङ्ख्येयानि खण्डानि करोति । ततः प्रतिसमयमसङ्ख्येयभाममुपशमयन् समस्तमन्तमुहर्तेन शमयति। तचासङ्ख्येयभागान् शमयन् सूक्ष्मसम्परायसंचमी भवति । अत्यन्तकिशुद्धाध्यवसायो दशमगुणस्थानवर्ती, श्रेण्यारोहे च वर्धमानविशुद्धाध्यवसायस्य विशुद्धमवतरता
१'षण्मासीं' इति ङ-च-पाठः। २ 'हारिणं' इति -पाठः। ३ 'सावधिकं' इति घ-च-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org