________________
सूत्र १८]
• स्वोपज्ञभाग्य - टीकालङ्कृतम्
२३३
टी० - सामयिकादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः केचित् विच्छिन्नपदमेव सूत्रमधीयते, एकमेव चारित्रं समुदाये मा प्रापदिति, तच्च नातीव सूत्रपाठाविमर्शः बहु मन्यामहे, सामायिकमेवेदं छेदोपस्थाप्यादिभेदेन ज्ञापितम्, यतोऽतः परमार्थत एकमेव चारित्रं संयम इति अभेदं मन्यमानो भाष्यकृदाह – सामायिकसंयम इत्यादि । सर्व सावद्ययोगविरतिलक्षणं सामायिकं तद्विशेषा एव छेदोपस्थाप्यादयः, विशुद्ध तराध्यवसाय विशेषाः सावद्ययोगविरतेरेव । तत्र शब्दनिर्भेदः - रागद्वेषविरहितः समः अयो- गमनम् । सकलक्रियोपलक्षणमेतत् । सर्वैव क्रिया साधोररक्तद्विष्टस्य निर्जराफला । समस्यायः समायः, समाय एंव सामायिकमिति स्वार्थिकः ठक् । समाये वा भवं सामायिक, समायेन निर्वृत्तं सामायिकं, समायस्य वा विकारः तन्मयः सामायः, स प्रयोजनमस्येति वा, सर्वत्र यथाऽभिप्रेतेऽर्थे ठक् । तच्च सामायिकं द्विप्रकारम् — इत्वरकालं यावज्जीविकं च । तत्राद्यं प्रथमान्त्य तीर्थकर - तीर्थयोः प्रव्रज्याप्रतिपत्तावारोपितं शस्त्रपरिज्ञाध्ययनादिविदः श्रद्दधतः छेदोपस्थाप्यसंयमारोपणविशिष्टतरत्वाद् विरतेः सामायिकव्यपदेशं
सामायिकस्य द्वैविध्यम् जहातीत्यत इत्वरकालम् । मध्यमतीर्थकृतां विदेहक्षेत्रवर्तिनां च यावज्जीविकं - प्रव्रज्याप्रतिपत्तिकालादारभ्य - आप्राणप्रयाणकालादवतिष्ठते । प्रथमान्त्यतीर्थकर - शिष्याणां सामान्य सामायिकपर्यायच्छेदो विशुद्धत र सर्वसावद्ययोगविरताववस्थानं विविक्ततरमहाव्रतारोपणं छेदोपस्थाप्यसंयमः । छेदोपस्थापनमेव छेदोपस्थाप्यम् । पूर्वपर्यायच्छेदे सति उत्तरपर्याये उपस्थापनं भावे यतो विधानात् । तदपि छेदोपस्थाप्यस्य द्विधा, निरतिचार - सातिचारभेदेन । तत्र शिक्षकस्य निरतिचारमद्विविधता धीतविशिष्टाध्ययनविदः मध्यमतीर्थकर शिष्यो वा यदोपसम्पद्यते चरमतीर्थकरशिष्याणामिति । सातिचारं तु भममूलगुणस्य पुनर्ब्रतारोपणात् छेदोपस्थाप्यम् । उभयं चैतत् सातिचारं निरतिचारं च स्थितकल्प एव, आद्यन्ततीर्थङ्करयोरेवेत्यर्थः । परिहारः- तपोविशेषस्तेन विशुद्धं परिहारविशुद्धिकं चेति । तदपि द्विधा - निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानकम् - आसेव्यमानकं, परिपरिहारविशुद्धेः भुज्यमानक मित्यर्थः, निर्विष्टकायिकमासेवितमुपभुक्तम्, तत्सहयोगात् द्विविधत्वम् तदनुष्ठायिनोऽपि निर्विश्यमानकाः ताच्छील्ये शक्तौ वा चानय । निर्देश:- उपभोगः, निर्विशमानकास्तत् उपभुञ्जानाः, निर्विष्टकायिकास्तु निर्विष्टः कायो येषामस्ति ते निर्विष्टकायिकास्तत्सहयोगात् तेनाकारेण तपोऽनुष्ठानद्वारेण परिभुक्तः कायो
सामायिकशब्दस्य निष्पत्तिः
१ 'निर्वर्तितं ' इति ङ-पाठः ।
'' चारमनविचार ' इति च-पाठः ।
३०
Jain Education International
३ 'सामान्ययतिपर्याय ' इति ध-पाठः । ३ ' विधत्ते' इति घ-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org