________________
षहाः
२३२ .
तत्त्वार्थाधिगमसूत्रम् .. अध्यायः १ सूत्रम्-एकादयो भाज्या युगपदैकोनविंशतः ॥९-१७ ॥ भा०-एषां द्वाविंशतः परीषहाणामेकादयो भजनीया युगपदेकस्मिन्
जीवे आ एकोनविंशतेः । अत्र शीतोष्णपरीषहौ युगपन्न योगपद्येन परी
र भवतः, अत्यन्तविरोधित्वात्। तथा चर्याशय्यानिषद्यापरी
पहाणामेकस्य सम्भवे बयोरभावः ॥ १७॥ टी०-एकादय इति तद्गुणसंविज्ञानो बहुव्रीहिः । अथवैकशेषः । एकश्वासावादिङ कादिः, एक आदि]षां ते एकादयः, एकादिश्च एकादयश्च एकादयः। तदेते बाविंशतिः परीषहा भाज्या-विकल्प्या युगपदेकस्मिन् यतौ। तत्र कस्यचिदेकः कस्यचिद् द्वौ कस्यचित् त्रयस्तावद् यावदेकोनविंशतिरविरोधात् युगपदेकत्रोदयन्ते, विरोधात् तु न द्वाविंशतिरप्येकस्मिन् युगपदिति । भाज्या इति णिजन्ताद्यत् । णिजपि चौरादिकः । आ एकोनविंशतेरिति एकेनोना विशतिरिति तत्र समासः। तृतीयेति योगविभागाननः प्रकृतिभावः। आक्तः, ऊनार्थाभिधायी चात्र नञ् । एकेनोना विंशतिरित्यर्थः । विंशतिशब्दस्य द्विदशवर्गनिवृत्तत्वात द्वौ दशको परिमाणमस्य सङ्घस्य विंशतिः। एकवचनान्तता एकत्वेन निपातनात् । बहुत्वाद् बहुवचनमिति चेत् न, एकार्थत्वाद् यूथ-वनादिवत् । कथं पुनरेकोनविंशतिः समस्ति युगपत् न पुनाविंशतिरपीत्याह-अत्यन्तविरोधादिति । शीतोष्णयोरसहावस्थानलक्षणो विरोधः परस्परपरिहारेण स्थितिः। अत्यन्तग्रहणं पर्यायनयविवक्षाप्राधान्यख्यापनार्थम् । शीतोष्णपर्यायावत्यन्तभिन्नौ-विरुद्धौ, तयोश्चैकस्मिन् काले नैकत्वेनावस्थानम् । द्रव्यार्थिकस्य तु तदेव द्रव्यमपास्तसमस्तपर्यायं शीतमुष्णं चेत्युत्थितासीनपुरुषवद् उत्फणविफणीभूतसर्पवद् वा नास्ति कश्चिद् विरोधः। तथा चर्या शय्या-निषद्यानामेकस्य सम्भवे द्वयोरभावः । चर्यायां सत्यां निषद्या-शय्ये न स्तः । निषद्यायां तु शय्या-चर्ययोरभावः। शय्यायां पुनर्निषद्या-चर्ये न भवतः इति त्रयो वय॑न्त इति ॥ १७॥
उक्तः परीषहजयः । सम्प्रति प्रस्तावप्राप्तं चारित्रमुच्यतेचारित्रस्य सूत्रम्-सामायिक-च्छेदोपस्थाप्य-परिहारविशुद्धिपश्चविधत्वम्
सूक्ष्मसम्पराय-यथाख्यातानि चारित्रम् ॥ ९-१८॥ भा०–सामायिकसंयमः १ छेदोपस्थाप्यसंयमः २ परिहारविशुद्धिसंयमः ३ सूक्ष्मसम्परायसंयमः ४ यथाख्यातसंयमः ५ इति पश्चविधं चारित्रम् । तत पुलाकादिषु (अ० ९, सू०४८) विस्तरेण वक्ष्यामः ॥१८॥
-
१'आ' इत्यधिको ग-पाठः । २ 'एकानविंशतः एकेन न विंशतिरिति नन्समासः' इति च-पाठः। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org