SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २३१ सूत्राणि १४-१६] . वोपज्ञमाष्य-टीकालङ्कृतम् सूत्रम्-दर्शनमोहा-अन्तराययोरदर्शनालाभौ ॥ ९-१४ ॥ भा०-दर्शनमोहान्तराययोरदर्शनालाभौ यथासङ्खचं दर्शनमोहोदयेऽदर्शनपरीषहः । लाभान्तरायोदयेऽलाभपरीषहः ॥ १४ ॥ .टी०-दर्शनमोहः-अनन्तानुबन्धिनो मिथ्यात्वादित्रयं च, यथासङ्ख्यमिति क्रमेण दर्शनमोहे अदर्शनपरीषहः । अन्तराये अलाभपरीषहः । अदर्शनम्-अश्रद्धानं देवादिसद्भावविषयम् , अतो मिथ्यात्वानुबन्धाद् दर्शनमोहेऽन्तःपात इति ॥ १४ ॥ सूत्रम्-चारित्रमोहे नाम्या-रति-स्त्री-निषद्या-ऽऽक्रोश-याचना. सत्कारपुरस्काराः॥ ९-१५ ॥ भा०-चारित्रमोहोदये एते नाग्न्यादयः सप्त परीषहा भवन्ति ॥ १५ ॥ टी०-दर्शनमोहवर्ज शेषं चारित्रमोहनीयम् । चारित्रं मूलोत्तरगुणसम्पन्नान्मोहनात् पराङ्मुखत्वाचारित्रमोहनीयम् । तदुदये सत्येते नाग्न्यादयः सस परीषदा भवन्ति । नाग्न्यं जुगुप्सोदयात् । अरत्युदयादरतिः । स्त्रीवेदोदयात् स्त्रीपरीषहः । निषद्यास्थानासेवित्वं भयोदयात् । क्रोधोदयादाक्रोशपरीषहः । मानोदयातू याच्यापरीषहः । लोमोदयात् सत्कार(पुरस्कार)परीषह इति ॥ १५ ॥ सूत्रम्-वेदनीये शेषाः॥९-१६ ॥ भा०-वेदनीये शेषा एकादश परीषहा भवन्ति ये जिने सम्भवन्तीत्युक्तम् ( अ०९, सू० ११)। कुतः शेषाः ? एभ्यः प्रज्ञा-ज्ञान-दर्शना-लाभनाग्न्या-रति-स्त्री-निषद्या-ऽऽक्रोश-याचना-सत्कारपुरस्कारेभ्य इति ॥ १६ ॥ .टी-वेदनीयकर्मोदये शेषाः एकादश परीषहाः सम्पतन्ति । कुतः शेषाः ? उपर्युक्तेभ्योऽन्ये शेषाः। के पुनरुपयुक्ताः प्रज्ञा-ज्ञाने अदर्शना- लाभौ सप्त च नाग्न्यादयः, एभ्यः शेषाः केवलिनो ये सम्भवन्ति । एकादश जिने प्रागुक्ताः क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगहणस्पर्शमलपरीपहाख्या इति ॥ १६॥ एवमेते व्याख्यातनिमित्तलक्षणविकल्पाः आबादरसम्परायात् सर्वे भवन्ति । परतस्तु नियताः। तत् किमेते कदाचित् सर्वेष्वेकस्य जन्तोर्योगपद्येन सम्भवन्ति न वा ? सम्भवन्तीत्याह १' हवेधात् ' इति घ-पाठः । २'ततः' इति च-पाठः। ३ 'केवलिनि ' इति च-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy