________________
१३०
तस्वार्थाधिगमसूत्रम् .. [ अध्याय ९ भवस्थकेवलिनः शेषकर्मकारणाभावाद् वेदनीयसम्भवाच तदाश्रया ऐव परीपहा भवन्तीत्याह
सूत्रम्-एकादश जिने ॥ ९-११ ॥ टी-अस्य भाष्यम्भा०-एकादश परीषहाः सम्भवन्ति जिने वेदनीयाश्रयाः। तद्यथार
क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमल
परीषहाः ॥११॥ टी-एकादशैव परीषहाः पूर्वोक्तचतुर्दशकमध्यादपनीय अमृन् प्रज्ञाज्ञानालाभाख्यास्त्रीन् एकादश शेषा भवन्ति वेदनीयकर्माश्रया जिने । मोहपुरासरेषु ज्ञानदर्शनावरणान्तरायेषु क्षयमात्यन्तिकमुपगतेषु घातिकर्मसु उत्पन्नसकलज्ञेयग्राहिनिरावरणशानो जिन: केवलीतियावत् । तत्रान्त्योपान्त्ययोगुणस्थानयोर्जिनत्वं, तत्र सम्भवः ॥ ११ ॥
सर्वेषां परीषहकारणानां कर्मणामुदयसम्भवमङ्गीकृत्याह-- सूत्रम्-बादरसम्पराये सर्वे ॥ ९-१२ ॥ भा०-बादरसम्परायसंयते सर्वे द्वाविंशतिरपि परीषहाः सम्भवन्ति ॥१२॥
टी० बादरः-स्थूलः सम्परायः-कषायस्तदुदयो यस्यासौ बादरसम्परायः संमतः। स च मोहप्रकृतीः कश्चिदुपशमयतीत्युपशमकः । कश्चित् क्षपयतीति क्षपकः । तत्र सर्वेषां वाविंशतेरपि क्षुदादीनां परीपहाणामदर्शनान्तानां सम्भव इति उक्ता गुणस्थानेषु यथासम्भवं परीषहाः ॥ १२ ॥
सम्प्रति कर्मप्रकृतिवन्तर्भावकथनायाह
सूत्रम्-ज्ञानावरणे प्रज्ञाऽज्ञाने ॥ ९-१३ ॥ भा०-ज्ञानावरणीयोदये प्रज्ञाऽज्ञानपरीषहौ भवतः ॥१३॥
टी-प्रज्ञा चाज्ञानं च प्रज्ञाऽज्ञाने। प्रज्ञापरीषहोऽज्ञानपरीषहश्च ज्ञानावरणे भवतः। झानावरणक्षयोपशमात् प्रज्ञाऽज्ञानं च । सत्येव हि ज्ञानावरणे तस्य क्षयोपशमः। ज्ञानावरणोदगाच अप्रज्ञा-निर्बुद्धिकत्वमज्ञानं चेति । कथं पुनरिदमुभयं लभ्यते । १ तुल्या हि संहिता अप्रज्ञा च ज्ञानं च अप्रज्ञाज्ञाने ज्ञानावरणोदये भवत इत्युभयथाऽपि स्पष्टं भाष्यम् ॥ १३ ॥
'भवपरीषहा' इति छ-पाठः। २' उत्तरगुण. ' इति ङ-पाठः। ३ 'रिदं लभ्यते' इति: ङ-पाठः, 'रिदमुदयं लभ्यते' इति तु च-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org