________________
सूत्र १०] म्वोपज्ञभाष्य-टीकालङ्कृतम्
२२९ . भा०-एते दाविंशतिधर्मविघ्नहेतवो यथोक्तं प्रयोजनमभिसन्धाय रागवेषौ निहत्य परिषोढव्या भवन्ति ॥ ९॥
टी-एत इति । क्षुदादयोऽदर्शनान्ताः प्रत्यक्षीकृता द्वाविंशतिरिति न न्यूना नाधिकाः क्षमादिदशलक्षणकस्य धर्मस्य विघ्नहेतवः-अन्तरायकारणभूताः । यथोक्तं संवराख्यं प्रयोजनमभिसमीक्ष्य अभिसन्धाय संवरफलं चाभिसन्धाय मोक्षं रागद्वेषौ निहत्येति । केचिद् रागादुदयमासादयन्ति केचिद् द्वेषादिति, अतः सर्व एवैते प्रादुःष्यन्तः समापतिताः समन्तात् परिषोढव्या भवन्तीति ॥ ९॥
पश्चानामेवेत्यादिना सूत्रं सम्बध्नाति
भा०—पश्चानामेव कर्मप्रकृतीनामुदयादेते परीषहाः प्रादुर्भवन्ति । तद्यथाज्ञानावरण-वेदनीय-दर्शनचारित्रमोहनीया-ऽन्तरायाणामिति ॥ . टी०-पश्चानामेव न षण्णां न चतसृणां कर्मप्रकृतीनामुयाद् विपाकादेते द्वाविंशतिः परीषहाः समुपजायन्ते। काः पुनस्ताः पञ्च कर्मप्रकृतय इति नामग्राहमाचष्टे-ज्ञानावरणस्य वेद्यस्य मोहनीयस्य । तच मोहनीयं द्विप्रकारं-दर्शनमोहनीयं चारित्रमोहनीयं च । तथा अन्तरायस्येत्येवमेताः पञ्च प्रकृतयः । तत्र कः परीपहः कस्य गुणस्थानेषु चेत्याह
सूत्रम्-सूक्ष्मसम्पराय-छद्मस्थवीतरागयोश्चतुर्दश ॥ ९-१०॥
भा०-सूक्ष्मसम्परायसंयंते छद्मस्थवीतरागसंयंते च चतुर्दश परीषहाः सम्भवन्ति, क्षुत्पिपासाशीतोष्णदंशमशकचर्याज्ञाज्ञानालाभशय्यावधरोगतृणस्पर्शमलानि ॥१०॥
टी-सूक्ष्मेत्यादि । स्वामिविशेषावधारणम् । चतुर्दशानां परीपहाणां सम्परायःकषायो लोभाख्यस्तस्य बादराणि खण्डानि परिशाटितानि नवमे गुणस्थाने । दशमे तु गुणस्थाने सूक्ष्मलोभपरमाणवो वेद्यन्ते । ततः सूक्ष्मः सम्परायो यस्यासौ सूक्ष्मसम्परायः, शमका क्षपको वा संयतो मूलोत्तरगुणसम्पन्नस्तस्मिन् सूक्ष्मसम्परायसंयते अमी चतुर्दश परीषहाः सम्भवन्ति, उदयमासादयन्तीतियावत् । छम-आवरणं तत्र स्थितश्छद्मस्थः, सावरणज्ञान इति । वीत:-अपेतो रागः सकलमोहोपर्शमात् समस्तमोहक्षयाच यस्य, क्रमेणैकादशद्वादशगुणस्थानवर्तिनी संयतौ परिगृह्येते । छद्मस्थवीतरागसामान्याच्चैकवचनम् । सूक्ष्मसम्परायश्च छमस्थवीतरागश्चेति द्वन्द्वः। तयोश्चतुर्दशैते भाष्यपरिपठिताः परीषहाः क्षुदादयो मलावसानाः ॥१०॥
१ 'परीषहाः' इत्यधिको घ-पाठः। २-३ 'यतेः' इति ग-पाठः। ४ 'भवन्ति' इति घ-पाठः। ५' अलाभप्रज्ञाज्ञानशय्या' इति ग-पाठः । ६ 'शमसमस्तन्मोह' इति -पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org