Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 360
________________ २५८ तार्थाधिगमसूत्रम् [ अध्यायः यन्तीति साधवो मोक्षम्, संयता इति मूलोत्तरगुणसम्पन्नाः द्वादशविधसम्भोगभाजः समनोज्ञानदर्शनचारित्राणि मनोज्ञानि सह मनोज्ञैः समनोज्ञाः तानि तानि वा सम्भोगकारणानि संविज्ञेष्वपि विद्यन्ते ॥ - भा० – एषामन्नपानवस्त्र पात्र प्रतिश्रयपीठफलक संस्तारादिभिर्धर्मसाधनैरुपग्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गोपसर्गेषु अभ्युपपत्तिरित्येतदादि वैयावृत्त्यम् ॥ २४ ॥ - टी० - एषामित्यादि । आचार्यादयः समनोज्ञान्ताः सम्बन्ध्यन्ते एषामित्यनेन । अन्नपानादयः प्रसिद्धाः तैरुपग्रहः – उपकारः । शुश्रूषा - विश्रामणादिका । भेषजक्रिया - मान्छे सति तदनुरूपभैषजसम्पादनम् । कान्तारम् - अरण्यम् । श्वापदबहुलत्वाद् विषमदुर्ग - गर्ता - कूपकण्टकादिप्रचितम् । उपसर्गो - ज्वरा - तीसार-कास- श्वास - मरकादिः । अभ्युपपत्तिःअभ्युद्धरणं परिपालनं परिरक्षणमन्नपानादि (भिः) यत् तद् वैयावृत्त्यमिति ॥ २४ ॥ सम्प्रति स्वाध्यायोऽभिधीयते - स्वाध्यायस्य पञ्चविधत्वम् सूत्रम् — वाचना- प्रच्छना - ऽनुप्रेक्षा-ऽऽम्नाय - धर्मोपदेशाः ॥ ९–२५ ॥ भा० - स्वाध्यायः पञ्चविधः । तद्यथा - वाचना, प्रच्छनं, अनुप्रेक्षा, आनायः, धर्मोपदेश इति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं धर्मोपदेशस्य ग्रन्थार्थयोः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आपर्यायाः नायो घोषविशुद्धं परिवर्तनं गुणनं, रूपादानमित्यर्थः । अर्थोपदेशो व्याख्यानं अनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ।। २५ ।। टी० – स्वाध्यायः पञ्चविध इत्यादि । तद्यथेत्यनेन भेदपञ्चकोपन्यासं सूचयति । तत्र वाचनेत्यादि । शिष्याणामध्यापनं वाचना कालिकस्योत्कालिकस्य वाऽऽलापकदानम् । ग्रन्थः सूत्रार्थः सूत्राभिधेयं तद्विषयं प्रच्छनम् । सन्देहे सति ग्रन्थार्थयोर्मनसाऽभ्यासोनुप्रेक्षा । न तु बहिर्वर्णोच्चारणमनुश्रावणीयम् । आम्नायोऽपि परिवर्तनं उदात्तादिपरिशुद्धमनुश्रावणीयमभ्यासविशेषः । गुणनं - सङ्ख्यानं पदाक्षरद्वारेण रूपादानमेकरूपम् । एका परिपाटी द्वे रूपे त्रीणि रूपाणीत्यादि । धर्मोपदेशस्तु सूत्रार्थकथनं व्याख्यानमनुयोगवर्णनमनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनर्थान्तरमिति ॥ २५ ॥ १ ' म्नाया' इति गन्पाठः । २ ' ग्रन्थः सूत्राभि० ' इति ग-ड-पाठः । ३' रुपदान० ' इति क-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472