Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 369
________________ सूच ३७] स्वोपज्ञभाष्य-टीकालङ्कृतम् देशविरतश्च कृतद्वन्द्वौ स्वामिनी रौद्रध्यानस्य निर्दिष्टौ षष्ठीद्विवचनेन । अविरत-देशविरतयोस्तु रौद्रध्यानमेतावस्य ध्यातारावित्यर्थः। एतदेव भाष्यकारो विवृणोति-हिंसार्थमित्यादिना । स्पष्टमेव तादर्थ्य दर्शयति । “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" (अ०७, सू० ८.) तच्च सखव्यापादनोद्वन्धपरितापनताडनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनखभावं हिंसानन्दम् । तत्र स्मृतिसमन्वाहारो रौद्रध्यानम् । येच जीवव्यापादनोपायाः परस्य च दुःखोत्पादनप्रयोगोस्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः । ... प्रबलरागद्वेषमोहस्य अनृतप्रयोजनवत् कन्याक्षितिनिक्षेपापलापपिशुनासत्यासद्भूतघाताभिसन्धानप्रवणमसदभिधानमनृतं तत्परोपघातार्थमनुपरततीवरौद्राशयस्य स्मृतेः समन्वाहारः। तत्रैवं दृढप्रणिधानमनृतानन्दमिति । - स्तेयार्थ स्तेयप्रयोजनमधुनोच्यते । तीव्रसङ्क्लेशाध्यवसायस्य ध्यातुः प्रबलीभूतलोभप्रचा' राहितसंस्कारस्य अपास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलः स्मृतिसमन्वाहारः। द्रव्यहरणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः । • विषयसंरक्षणार्थ चेति चतुर्थो विकल्पः । चशब्दः समुच्चये । विषयपरिपालनप्रयोजन . विषयशब्दस्य । __ च भवति रौद्रं ध्यानम् । विषमिव यान्ति विसर्पन्ति परिभुज्यमानाः । निष्पादनम् 4 पृषोदरादित्वात् संस्कारः । अथवा 'पिञ् बन्धने (पा० धा० १४७८) - भोक्तारं विशेषेण विविधं वा सिन्वन्ति-बनन्तीति विषयाः-शब्दादयः । तत्साधनानि च चेतनाचेतनव्यामिश्रवस्तूनि विषयशब्दवाच्यानि । विषीदन्ति वा प्राणिनो येषु परिभुञ्जानास्ते विषयाः । यथोक्तं (प्रशमरतौ श्लो० १०७).......... " यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः। किम्पाकफलादनवद्, भवन्ति पश्चादतिदुरन्ताः ॥”—आर्या विषयाणां च संरक्षणमुक्तं परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु रक्षणमुपभोगे चावितृप्तिः । इत्थं च विषयसंरक्षणाहितक्रौर्यस्य म्लेच्छमलिम्लुचाग्निक्षेत्रमृद्दायादिभ्यः समुदितायुधस्यानायुधस्य वा रक्षतः तीव्रण लोभकषायेणानुरक्तचेतसः तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दम् रौद्रं भवति ध्यानम् । तच्चैतदविरतस्वामिकम् । तौ च पूर्वोक्तलक्षणौ । तयोरेव च भवत्येतत् प्रमत्तसंयतादीनामिति । रौद्रध्यायिनः तीव्रसंक्लिष्टाः कापोतनीलकृष्णलेश्यास्तिस्रस्तदनुगमाच नरकगतिमूलमेतत् । पर्याप्तमादाय कर्मजालं दुरन्तं .. १.ये च व्यापादनो ' इति ङ-पाठः। २' प्रसंगा' इति च-पाठः। ३ 'ध्वप्राप्तनष्टेषु' इति च-पाठः । ४ 'त्येव त(१) प्रमत्त ' इति ग-पाठः। ५ संक्केशाः' इति -पाठः। ६ ' नीललेश्या' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472