________________
सूच ३७]
स्वोपज्ञभाष्य-टीकालङ्कृतम् देशविरतश्च कृतद्वन्द्वौ स्वामिनी रौद्रध्यानस्य निर्दिष्टौ षष्ठीद्विवचनेन । अविरत-देशविरतयोस्तु रौद्रध्यानमेतावस्य ध्यातारावित्यर्थः। एतदेव भाष्यकारो विवृणोति-हिंसार्थमित्यादिना । स्पष्टमेव तादर्थ्य दर्शयति । “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" (अ०७, सू० ८.) तच्च सखव्यापादनोद्वन्धपरितापनताडनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनखभावं हिंसानन्दम् । तत्र स्मृतिसमन्वाहारो रौद्रध्यानम् । येच जीवव्यापादनोपायाः परस्य च दुःखोत्पादनप्रयोगोस्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः । ... प्रबलरागद्वेषमोहस्य अनृतप्रयोजनवत् कन्याक्षितिनिक्षेपापलापपिशुनासत्यासद्भूतघाताभिसन्धानप्रवणमसदभिधानमनृतं तत्परोपघातार्थमनुपरततीवरौद्राशयस्य स्मृतेः समन्वाहारः। तत्रैवं दृढप्रणिधानमनृतानन्दमिति ।
- स्तेयार्थ स्तेयप्रयोजनमधुनोच्यते । तीव्रसङ्क्लेशाध्यवसायस्य ध्यातुः प्रबलीभूतलोभप्रचा' राहितसंस्कारस्य अपास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलः स्मृतिसमन्वाहारः। द्रव्यहरणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः । • विषयसंरक्षणार्थ चेति चतुर्थो विकल्पः । चशब्दः समुच्चये । विषयपरिपालनप्रयोजन . विषयशब्दस्य ।
__ च भवति रौद्रं ध्यानम् । विषमिव यान्ति विसर्पन्ति परिभुज्यमानाः । निष्पादनम्
4 पृषोदरादित्वात् संस्कारः । अथवा 'पिञ् बन्धने (पा० धा० १४७८)
- भोक्तारं विशेषेण विविधं वा सिन्वन्ति-बनन्तीति विषयाः-शब्दादयः । तत्साधनानि च चेतनाचेतनव्यामिश्रवस्तूनि विषयशब्दवाच्यानि । विषीदन्ति वा प्राणिनो येषु परिभुञ्जानास्ते विषयाः । यथोक्तं (प्रशमरतौ श्लो० १०७).......... " यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः।
किम्पाकफलादनवद्, भवन्ति पश्चादतिदुरन्ताः ॥”—आर्या विषयाणां च संरक्षणमुक्तं परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु रक्षणमुपभोगे चावितृप्तिः । इत्थं च विषयसंरक्षणाहितक्रौर्यस्य म्लेच्छमलिम्लुचाग्निक्षेत्रमृद्दायादिभ्यः समुदितायुधस्यानायुधस्य वा रक्षतः तीव्रण लोभकषायेणानुरक्तचेतसः तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दम् रौद्रं भवति ध्यानम् । तच्चैतदविरतस्वामिकम् । तौ च पूर्वोक्तलक्षणौ । तयोरेव च भवत्येतत् प्रमत्तसंयतादीनामिति । रौद्रध्यायिनः तीव्रसंक्लिष्टाः कापोतनीलकृष्णलेश्यास्तिस्रस्तदनुगमाच नरकगतिमूलमेतत् । पर्याप्तमादाय कर्मजालं दुरन्तं .. १.ये च व्यापादनो ' इति ङ-पाठः। २' प्रसंगा' इति च-पाठः। ३ 'ध्वप्राप्तनष्टेषु' इति च-पाठः । ४ 'त्येव त(१) प्रमत्त ' इति ग-पाठः। ५ संक्केशाः' इति -पाठः। ६ ' नीललेश्या' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org