________________
२६६
तार्थाधिगमसूत्रम्
आर्तरौद्रे व्याख्याते । सम्प्रति धर्मध्यानव्याख्यावसरः ।
माख्यायते -
धर्मध्यानस्य चातुविध्यं तत्स्वामिनश्च
सूत्रम् - आज्ञा-पाय- विपाक संस्थान विचयाय धर्ममत्रमत्तसंयतस्य ॥ ९-३७॥
भा०- - आज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविश्चयाय च स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति ॥ ३७ ॥ किञ्चान्यत्
टी० - आज़ादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः । आज्ञादीनां विचय:पर्यालोचनम् । विचयशब्दः प्रत्येकमभिसम्बध्यते । आज्ञाऽपायविपाकसंस्थानविचयशब्दात् ताद चतुर्थी । धर्मशब्दो व्याख्यातः । अप्रमत्तसंयतस्येति स्वामिनिर्देशः । तत्राज्ञा- सर्वज्ञप्रणीत आगमः । तामाज्ञामित्थं विचिनुयात् पर्यालोचयेत् — पूर्वापरविशुद्धामतिनिपुणाशेषजीवाहितामनवद्यां महार्था महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाद्यनिधनां “ईच्चेइयं दुवालसंगं गणिपिडगं न कयाइ णासी" इत्यादि (नन्दी सू० ५८ ) वचनात् । 'तंत्र प्रज्ञायाः परिदुर्बलत्वादुपयुक्तेऽपि सूक्ष्मया शेमुष्या यदि नावैति भूतमर्थं सावरणज्ञानत्वात् । यथोक्तम्
Jain Education International
[ अध्यायः ९
तच्च सभेदं सस्वामिक
" नहि नामानाभोग - च्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥ १ ॥" आर्या
तथाप्येवं विचिन्वतोऽवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथाव्यवस्थितमन्यथा• वयन्ति भाषन्ते वाऽनृतकारणाभावात् । अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तरकमित्याज्ञायां स्मृतिसमन्वाहारः । प्रथमं धर्मध्यानमाज्ञाविचयाख्यम् ।
अपायविचयं द्वितीयं धर्मध्यानमुच्यते । अपाया - विपदः शारीर-मानसानि दुःखानीति पर्यायास्तेषां विचयः - अन्वेषणमिहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोत्तरप्रकृतिविभागार्पितजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः सांसारिकसुखप्रपञ्श्चेष्ववितृप्तमानसाः कायेन्द्रियादिष्वास्रवद्वारप्रवाहेषु वर्तमाना मिथ्यात्वाज्ञानाविरतिपरिणतिभिर्निवृत्ताः । प्रातिपदिकात् ताद चतुर्थीबहुवचनम् । हिंसायै हिंसार्थं हिंसाप्रयोजनं रौद्रं भवति ध्यानम् । एवमनृताय स्तेयाय विषयसंरक्षणाय चेति वाच्यं रौद्रमित्युक्तं निर्वचनं प्राक् । अविरतश्च
१ छाया
इत्येतद् द्वादशाङ्के गणिपिटकं न कदापि नासीत् ।
२ ' विचित्रता' इति च-पाठः ।
For Private & Personal Use Only
--
www.jainelibrary.org