________________
२६५
सूत्रं ३६]
म्वोपज्ञभाष्य-टीकालङ्कृतम् "देशविरतोऽपि ततः, स्थानात् स विशोधिमुत्तमां प्राप्य । स्थानान्तराणि पूर्व-विधिनैव संयात्यनेकानि ॥१॥ -आर्या क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान् । सततोदयेन भवेत् , तस्य विरमणे सर्वतोपि मतिः ॥२॥-, छेदोपस्थाप्यं चा-वृत्तं सामायिकं चरित्रं वा ।
स ततो लभते प्रत्या-ख्यानावरणक्षयोपशमात् ॥३॥ -, तस्येदानी महाव्रतगुप्तिसमितियुक्तस्य कषायनिग्रहाद् इन्द्रियदमाञ्च निरुद्धाश्रवस्य निर्वेदा दिवैराग्यभावनाभिः स्थिरीकृतसंवेगस्य यथोक्तद्वादशप्रकारतपोयोगात् सञ्चितानि कर्माणि निर्जरयतः सूत्रानुसाराद् यतमानस्यापि मोहनीयकर्मानुभावात् सङ्क्लेशाद् वा विशोध्या वाऽन्तर्मुहात् परावर्तते । ततः सज्वलनकषायोदयाद् , इन्द्रियविकथाप्रमादाद् , योगदुष्प्रणिधानात् , कुशलेष्वनादराच्च प्रमत्तसंयतो भवति, तस्मात् सङ्क्लेशाद्धायां वर्तमानः प्रमत्तसंयतः। एते त्रयोऽप्यातध्यायिनो भवन्ति, आर्तध्यानस्वामिन इत्यर्थः । एतदातध्यानमविरतादीनामेव भवति, नाप्रमत्तसंयतादीनामित्यर्थः । तदेतदात नातिसंक्लिष्टकापोतनीलकृष्णलेश्यानुयायि द्रष्टव्यमिति॥३५॥ सम्प्रति रौद्रध्यानं सस्वामिकमभिधित्सुराह
सूत्रम्-हिंसा-ऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रस्वामिनः मविरतदेशविरतयोः ॥९-३६ ॥
भा०-हिंसार्थमनृतवचनार्थ स्तेयार्थ विषयसंरक्षणार्थं च स्मृतिसमन्वाहारो रौद्रध्यानं, तदविरतदेशविरतयोरेव भवति ॥ ३६॥
टी-हिंसा अनृतं स्तेयं विषयसंरक्षणं चेति द्वन्द्वः । ततो द्वन्द्वसमासः । लिङ्गान्यस्योत्सन्नबहज्ञानामरणदोषाः । तत्र हिंसानन्दादीनां चतुर्णा प्रकाराणामन्यतमभेदेऽनवरतमविश्रान्त्या प्रवर्तमानस्य बहुकृत्वः सञ्चितदोष उत्सनशब्दवाच्यः । यथोत्सन्नकालान्तरमुपचितमिति । तथा हिंसानन्दादिषु चतुर्ध्वपि प्रवर्तमानस्याभिनिविष्टान्तःकरणस्य बहुदोषता अज्ञानदोषता तेष्वेव हिंसादिषु अधर्मकार्येष्वभ्युदयकार्यबुद्धिव्यपाश्रयस्य चैकतानविधानावलम्बितसंसारमोचकस्येव भवति । अथवा नानाप्रकारेषु हिंसानन्दाधुपायेषु प्रवर्तमानस्य प्रचण्डक्रोधाविष्टस्य महामोहाभिभूतस्य तीव्रवधबन्धसंक्लिष्टाध्यवसायस्य नानाविधदोषता, पाठान्तरव्याख्यानं तृतीयविकल्पस्य । तुर्यदोषस्तु मरणावस्थायामपि हिंसानन्दादिकृतः स्वल्पोऽपि पश्चात्तापो यस्य नास्ति तस्यामरणान्तदोषतेति ॥३६॥
ध्यानस्य
४ भाष्यस्य
बिरतेऽपि' इति -पाठः। २'चरित्रं' इति ङ-पाठः। ३'प्रमोदात्' इति उ-पाठः। विवरणं समुपलभ्यतेऽनन्तरसत्रटीकायाम्। ५'हिंसादिषु' इति च-पाठः।
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org