SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमसूत्रम् । [ अध्यायः ९ आर्तध्यानस्य सूत्रम्-तदविरतदेशविरतप्रमत्तसंयतानाम् । ९-३५॥ चमतदापाराशावर समनपतप - स्वामिनः भा०-तदेतदातध्यानं अविरतदेशविरतप्रमत्तसंयतानामेव भवतीति ॥ ३५॥ टी-तदित्यार्तमभिसम्बध्यते । तदार्तध्यानमविरतसम्यग्दृष्टयादीनां त्रयाणां स्वामिनां सम्भवति । एतस्य त्रयः स्वामिनश्चतुर्थ-पञ्चम-षष्ठगुणस्थानवर्तिनः क्रमेणाविरतदेशविरतप्रमत्तसंयताः। अविरतश्चासौ सम्यग्दृष्टिश्चेति अविरतसम्यग्दृष्टिः प्रत्याख्यानावरेणोदये सति विरतिलक्षणस्य संयमस्याभावादविरतसम्यग्दृष्टिः। आह च " आवृण्वन्ति प्रत्या-ख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्याना-वरणास्ते नञ् हिंसोऽल्पार्थः ॥१॥-आर्या प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् । न त्वब्राह्मणवचने, तत्सदृशः पुरुष एवेष्टः॥२॥"-आर्या औपशमिक-क्षायोपशमिक-क्षायिकभेदाच त्रिविधं सम्यग्दर्शनं, तद्योगात् सम्यग्दृष्टिः देशविरतः संयतासंयतः हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावद्ययोगादनिवृत्त इति स एवासंयतः, सोऽविरतसम्यग्दृष्टिस्थानादसंख्येयानि विशोधिस्थानानि गत्वा अप्रत्याख्यानावरणकषायेषु क्षयोपशमं नीतेषु प्रत्याख्यानावरणकषायोदयात् कृत्स्नप्रत्याख्यानाभावाद् देशविरतः । आह च " तस्मादविरतसम्यग-दृष्टिस्थानादू विशोधिमुपगम्य । स्थानान्तराण्यनेका-न्यारोहति पूर्वविधिनैव ॥१॥-आर्या क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान्। सततो येन भवेत् त-स्य विरमणे बुद्धिरल्पेऽल्पा ॥२॥-, तस्य तथैव विशोधि-स्थानान्यारोहतोऽतिसङ्ख्यानि।। गच्छन्ति सर्वथापि, प्रकर्षतस्ते क्षयोपशमम् ॥३॥-, श्रावकधर्मो द्वादश-भेदः सञ्जायते ततस्तस्य । पञ्चत्रिचतुःसङ्ख्य-व्रतगुणशिक्षामयः शुद्धः ॥४॥-, सर्व प्रत्याख्यानं, येनाकृश्वन्ति तदभिलषतोऽपि ।। तेन प्रत्याख्याना-वरणास्ते निर्विशेषोक्ताः ॥५॥"-, इदानीं प्रमत्तसंयतः । तस्मादसङ्खयेयानि विशोधिस्थानान्यारोहतस्तृतीयकषायेषु प्रकर्षात् क्षयोपशमं गतेषु सर्वसावद्ययोगप्रत्याख्यानविरतिर्भवति । उक्तं च .. १ 'संयतानां' इति ङ-पाठः । २ ‘वरणो देशविरति' इति च-पाठः। ३ संयतीसंयतः' इति घ-पाठः। ४'धितस्थानानि' इति च-पाठः । ५'शमनीयेषु' इति घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy