________________
स्योपज्ञभाष्य–टीकालङ्कृतम्
आर्तस्य तृतीयविकल्पः
सूत्रम् - विपरीतमनोज्ञानाम् ॥ ९-३३ ॥
भा० - मनोज्ञानां विषयाणां मनोज्ञायाञ्च वेदनाया विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार आर्तम् ॥ ३३ ॥ किञ्चान्यत्
सूत्रे ३३-३४ ]
टी० - मनोज्ञा-अभिरुचिता इष्टाः प्रीतिहेतवः तेषां विपरीतं संयोजनं कार्यम् । मनोज्ञानामित्यादि । मनोज्ञानां विषयाणां वेदनायाश्च मनोज्ञायाः विपरीतप्रधानार्थाभिसम्बन्धो विपरीतशब्देन क्रियत इत्याह-- विप्रयोगे तत्सम्प्रयोगायेत्यादि । तत्सम्प्रयोगार्थः तत्सम्प्रयोगाय सम्प्रयोगप्रयोजनः स्मृतेः समन्वाहारः । कथं नु नाम भूयोऽपि तैः सह मनोज्ञविषयैः संप्रयोगः स्यान्ममेति । एवं प्रणिधत्ते दृढं मनस्तदप्यार्तमिति ॥ ३३ ॥ किञ्चान्यदिति तुरीयमार्तप्रकारं दर्शयति
आर्तस्य चतुर्थो
विकल्पः सूत्रम् - निदानं च ॥ ९-३४॥
टी० – निपूर्वाद् दातेर्लवनार्थस्य ल्युटि रूपम् । निदायते - लूयते लुप्यते येनात्महितमै - निदानशब्दस्य कान्तिकात्यन्तिकानाबाधसुखलक्षणं तन्निदानमिति । चशब्दः समुच्चये । सिद्धिः । एष चार्तकार इत्यर्थः ।
र्थमाह
भा० - कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति ॥ ३४ ॥
टी० - कामोपहतचित्तानामित्यादि । काम - इच्छाविशेषः शब्दाद्युपयोगविषयः । अथवा मदनः -- कामः चिरमुग्रतपोनिष्ठाय कर्मक्षपणक्षमदीर्घदर्शितया स्वल्पस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते तत्रैव कृतदृढप्रणिधाना बह्वविनश्वरं सतततृप्तिकारणमुक्तिसुखमनुपम मेवमन्य, प्रवर्तमानाः कामोपहतचेतसः पुनर्भवविषयगृद्धा विदधति यन्निदानं तदार्तध्यानं निदानरूपम् । एष एवार्थो विभक्त्यन्तरेण प्रतिपादितः । कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवतीति । तस्यैतस्यार्तध्यानस्य चतुःप्रकारस्यापि शोकादीनि लक्षणानि भवन्ति । यैरार्तध्यायी लक्ष्यते करतलपर्यो - म्लानवदनः शोचति ऋन्दति विलपति हा हा अहो धिक् कष्टं हुं मनस्योरस्ताडं परिदेवते दीर्घ निश्वसिति कवोष्णं शून्यव्याक्षिप्तचित्त इवोपलक्ष्यते । तथा कलहमायामात्सर्यासूयास्तथा अरतिः स्त्रीभोजनकथासुहृत्स्वजनानुरागाश्च तस्य लक्षणानि भवन्ति परिस्फुटानीति ॥ ३४ ॥ इत्थमार्तध्यानं सभेदकमभिधायाऽधुनास्यैव ध्यातारः स्वामिनो निरूप्यन्ते इति तद
१ 'मवगम्य' इति च पाठः ।
३ ' मारस्ताडनं ' ङ-पाठः ।
------
Jain Education International
२६३
२
'पर्यस्तप्रम्लान ०' इति ग-पाठः, 'पर्यन्तप्रलान०' इति तु ङ-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org