________________
२६२ तत्त्वार्थाधिगमसूत्रम् ,
[ अध्यायः ९ भास्य प्रथमो सूत्रम्-आर्तममनोज्ञानां सम्प्रयोगे तदिप्रयोगाय विकल्पः स्मृतिसमन्वाहारः॥ ९-३१॥
भा०-अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थ यः स्मृतिसमन्वाहारो भवति तदातध्यानमित्याचक्षते ॥३१॥ किश्चान्यत्
टी-आर्तमनोज्ञानां इत्यादि। आर्तशब्दः पूर्ववद् व्याख्येयः । अयं चापरप्रकारः। आर्तशब्दस्य - अर्तिीतुर्दुःखार्थः । तस्यार्तिरिति रूपम् । अर्तिश्च-दुःखं शारीरं मानसं
चानेकप्रकारं तस्यां भवमात ध्यानम् । अमनोज्ञा-अनिष्टाः शब्दादयः
- निष्पत्तिः
" तेषां सम्बन्धे इन्द्रियेण सह सम्पर्के सति चतुर्णा शब्द-स्पर्श-रस-गन्धानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेस्तेनं विषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तधिप्रयोगायेति । तदित्यमनोज्ञविषयाभिसम्बन्धः । तेषाममनोज्ञानां शब्दादिनां विप्रयोगः अपगमस्तदर्थं विप्रयोगायानिष्टशब्दादिविषयपरिहाराय यः स्मृतिसमन्वाहारस्तदातम् । स्मृतिसमन्वाहारो नाम तद्विप्रयोगादेवानुग्रहप्रतिपत्तीच्छया य आत्मनः प्रणिधानविशेषः स समन्वाहारः स्मृतेः कथमहमसादमनोज्ञविषयसम्प्रयोगाद विमुच्येयेति । सर्यतेऽनेनेति स्मृतिमनोऽभिधीयते । स्मृतिहेतुत्वाद् वा स्मृतिर्मनः। तस्याः स्मृतेः प्रणिधानरूपायाः समन्वाहरणं समन्वाहारः । अमनोज्ञविषयविप्रयोगोपाये व्यवस्थापनं मनसो निश्चलमार्तध्यानं केनोपायेन वियोगः स्यादित्येकतानमनोनिवेशनमार्तध्यानमित्यर्थः ॥ ३१ ॥ किञ्चान्यदिति सम्बध्नाति।
प्रकारान्तरमन्यदस्यार्तस्यास्तीत्याहआर्तस्य द्वितीयो "विकल्पः सूत्रम्-वेदनायाश्च ॥ ९-३२॥
टी-वेदन-वेदनाया अनुभवः । अनन्तरसूत्रमनुवर्तते तदभिसम्बभन् भाष्यकृदाह__ भा०-वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहार आर्तमिति ॥ ३२॥ किश्चान्यत्
टी०-वेदनाया अमनोज्ञाया इत्यादि । सुखा दुःखा चोभयी वेदना । तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः प्रकुपितपवनपित्तश्लेष्मसनिपातनिमित्तैरुपजातायाः शूलशिरःकम्पज्वराक्षिश्रवणदशनादिकायास्तद्विप्रयोगाय स्मृतिसमन्वाहारो ध्यानमार्तमेष द्वितीयो विकल्पः । किश्चान्यदित्यातप्रकारान्तरं दर्शयति
१ 'स्वेन' इति छ पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org