________________
व्युत्पत्तिः
सूत्रं ३०]
स्वोपज्ञभाष्य टीकालङ्कृतम् ___टी-कृतद्वन्द्वान्यादीनि नपुंसकबहुवचनेन निर्दिष्टानि-तच्चतुर्विधं भवतीत्यादि। तद्धयानं सामान्येन लक्षितं चतुर्विधं भवति-चतुर्धा भिद्यते । चतस्रो विधा यस्य तच्चतुर्विधम् । 'विधाप्रदर्शनायाह-तद्यथेति । आतै, रौद्रं, धर्म्य, शुक्लमिति । तत्रार्तस्य शब्दनिर्भेदाभिधानम् । ऋतशब्दो दुःखपर्यायवाच्याश्रीयते । अर्तेर्गमिक्रियापरिस्पन्दिनो
निष्ठाप्रत्ययान्तः । तस्मादागतार्थे तद्धितप्रत्ययो णित् । आत दुःखभवं आर्तादीनां
दुःखानुबन्धि चेति । तथाचामनोज्ञविषयप्रयोगो दुःखम् । वेदना च नेत्र
शिरोदशनादिका दुःखमेव । तथा मनोज्ञविषयविप्रयोगोऽशमैव । निदानमपि चित्तदुःखासिकयैव क्रियत इत्युपपन्नः प्रत्ययार्थः । तथा रोदयत्यपरानिति रुद्रो दुःखस्य हेतुः तेन कृतं तत्कर्म वा रौद्रं प्राणिवधबन्धपरिणत आत्मैव रुद्र इत्यर्थः । धर्मः क्षमादिदशलक्षणकस्तस्मादनपेतं धर्म्यम् । शुक्लं-शुचि निर्मलं सकलकर्मक्षयहेतुत्वादिति । शुग्वा दुःखमष्टप्रकारं कर्म तां च शुचं क्लमयति-ग्लपयति निरस्यति शुक्लं इत्येतावदेव ध्यानं चतुर्विधमिति ॥ २९॥ तेषामित्यनेन सूत्रं सम्बध्नाति
सूत्रम्-परे मोक्षहेतू ॥ ९-३०॥ भा०-तेषां चतुर्णा ध्यानानां परे धर्म्य-शुक्ले मोक्षहेतू भवतः। पूर्वे स्वातरौद्रे संसारहेतू इति ॥३०॥
टी-तेषां चतुर्णामित्यादि । यानि प्रस्तुतानि ध्यानानि तेषामार्त-रौद्र-धर्म-शुक्लानां चतुर्णा ध्यानानांसूत्रसन्निवेशमाश्रित्य परे धर्म्य-शुक्ले मोक्षहेतू-मुक्तेः कारणतां प्रतिपद्यते। तत्रापि साक्षात् मुक्तेः कारणीभवतः। पाश्चात्यो शुक्लध्यानभेदी सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियां वा निवर्ति, धर्म्यध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति । ततश्चैतद्धHध्यानादि देवगतेमुक्तेश्च कारणं, न मुक्तरेव । अर्थादिदमगम्यमानमाह-पूर्वे त्वार्तरौद्रे संसारहेतू इति । आर्त-रौद्रयोः संसारहेतुतैव, न जातुचिन्मुक्तिहेतुता। संसारश्च नारकादिभेदश्चतुर्गतिक इति । परमार्थतस्तु रागद्वेषमोहाः संसारहेतवः। तदनुगतं चार्तरौद्ररूपमपि प्रकृष्टतमरागद्वेषमोहभाजः, अतः संसारपरिभ्रमणहेतुता तयोरिति ॥३०॥
भा०-अत्राह-किमेषां लक्षणमिति । अत्रोच्यते
टी-सम्प्रति ध्येयप्रकाराः विषयविषयिविकल्पनिमित्तभेदेनोच्यन्ते–अत्राहेत्यादि। सम्बन्धो लक्ष्यते येन तल्लक्षणं विलापशोकादि । अमनोज्ञविषयसम्बन्धे क्रन्दति शोचतीति लक्ष्यते आर्तध्यायी ॥
१ 'तत्प्रदर्शनाय.' इति क पाकः । “विधानप्र०' इति च पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org