________________
२६० तत्त्वार्थाधिगमसूत्रम् .
[ अध्यायः ९ मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति । तद्युक्तस्येति तेन प्रतिविशिष्टेन संहननत्रयेणायेन चतुर्विधेन वा युक्तस्य-सम्पन्नस्य । एकाग्रचिन्तानिरोधः। चशब्दाद् वाक्-कायनिरोधश्च ध्यानम्। अत्र च ध्याता संसार्यात्मा ध्यानस्वरूपमेकाग्रचिन्तानिरोधः। ध्यातिानमिति भावसाधनः । कालतो मुहूर्तमात्रं चतुःप्रकारमार्तादिभेदेन । ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः। शोकाक्रन्दनविलपनादिलक्षणमात, उत्सनबद्धादिलक्षणं रौद्रं, जिनप्रणीतभावश्रद्धानादिलिङ्गं धर्म्य, अबाधाऽसम्मोहादिलक्षणं शुक्लम् । फलं पुनस्तिर्यङ्-नरक-देवगत्यादिमोक्षाख्यमिति क्रमेण उत्तमसंहननपदार्थलभ्यो ध्याता अभिहितः। ध्यानस्वरूपं भावसाधनता च विज्ञेया॥२७॥
सम्प्रति ध्यानकालप्रमाणनिरूपणायाहध्यानस्य कालमानम् सूत्रम्-आ मुहूर्तात् ॥ ९-२८॥
भा०—तद्धधानमा मुहूर्तात् भवति परतो न भवति दुर्ध्यानत्वात् ॥ २८ ॥
टी-आ मुहूर्तादिति । घटिकाद्वयं मुहूर्तः। अभिविधावाङ् । अन्तर्मुहूर्तपरिमाणं न परतो मुहूर्तादित्यर्थः। तद्धयानमित्यादि । तदेतत् सामान्यलक्षणोक्तं ध्यानं चतुर्विधमप्यामुहूर्तात् भवति, परतो न भवत्यशक्तेरेव । यस्मान्मोहनीयकर्मानुभावात् संक्लेशाद् वा विशोध्य वान्तर्मुहूर्तात् परावर्तते । उक्तं च
"नान्तर्मुहूर्तकालं, व्यतीत्य शक्यं हि जगति सङ्क्लेष्टुम् ।।
नापि विशोढुं शक्यं, प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥”–आर्या किं पुनः कारणं परतो न ध्यानमस्तीत्याह-दुनित्वात्। दुरितिशब्दो वैकृते वर्तते । विकृतो वर्णो दुर्वर्ण इति यथा, एवं विकृतं ध्यानं विकारान्तरमापन्नं दुर्ध्यानमिति । अथवा
... व्युद्धौ दुःशब्दः । ऋद्धिवियुक्ता यवना दुर्यवनं दुष्क(?) बीजमिति । एवं दुःशब्दस्य अथाः ध्यानलक्षणविनिर्मुक्तं दुर्व्यानं । अनीप्सायां वा दुःशब्दः। अनीप्सितोऽस्या भग इति दुर्भगा कन्या । एवमनीप्सितं दुर्ध्यानमिति तद्भावो दुर्ध्यानत्वं तस्मादू दुर्ध्यानत्वान्न परतो ध्यानमस्ति ॥२८॥
सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाहध्यानस्य चतुर्विधता सूत्रम्-आर्त-रौद्र-धर्म्य-शुक्लानि ॥९-२९ ॥
भा०–तचतुर्विधं भवति-तद्यथा आर्त, रौ, धर्य, शुक्लमिति ॥ २९ ॥ तेषाम्
'प्यानमिति' इति ग-पाठः । २'धर्म' इति घ-पाठः। ३ 'धर्म' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org