________________
सूत्रे २६-२७] स्वोपज्ञभाष्य-टीकालङ्कृतम् .
२५९ अधुना व्युत्सर्गो व्याख्यायते
सूत्रम्-बाह्या-ऽभ्यन्तरोपध्योः ॥९-२६ ॥ भा०-व्युत्सों विविधः-बाह्योऽभ्यन्तरश्च । तत्र बाह्यो द्वादशरूपकस्योपधेः । अभ्यन्तरः शरीरस्य कषायाणां चेति ॥ २६॥
टी०-व्युत्सर्गो द्विविध इत्यादि । विविधस्योत्सर्गो व्युत्सर्गः। संसक्तासंसक्तपानादेः विधिना प्रवचनविहितेनोत्सर्गो व्युत्सर्गः । स द्विप्रकारः बाह्या-ऽभ्यन्तरभेदात् । तत्र तयोबाह्यस्य तावद् द्वादशरूपकस्योपधेः पात्रतद्वन्धपात्रस्थापनादीनि द्वादश रूपाण्यस्येति द्वादशरूपकः । उपग्राहकत्वादुपकारत्वादुपधिः। अभ्यन्तरः शरीरस्य कषायाणां चेति । शरीरस्य पर्यन्तकाले विज्ञायाकिञ्चित्करत्वं शरीरकं परित्यजति-उज्झति । यथोक्तम् (भग० श० २, उ० १, सू० ९५)-"जं पि य इमं सरीरं इदं कंतं" इत्यादि । क्रोधादयः कषायाः संसारपरिभ्रमणहेतवः तेषां व्युत्सर्गः-परित्यागो मनो वाक्-कायैः कृतकारिता-ऽनुमतिभिश्चेति ॥२६॥ सम्यक्त्वादित्रयं मोक्षसाधनं, तत्रापि ध्यानं गरीयस्तनिरूपणायाह
सूत्रम्-उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानस्य लक्षणम्
ध्यानम् ॥ ९-२७॥ भा०–उत्तमसंहननं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचं च। तयुक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् ॥ २७ ॥
टी०–उत्तम-प्रकृष्ट संहननम्-अस्मां बन्धविशेषः । उत्तम संहननमस्येत्युत्तमसंहननं, तदुत्तमसंहननं चतुर्विधं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचम् । वज्र-कीलिका, ऋषभः-पट्टः, नाराचो-मर्कटबन्धः । प्रथमं त्रितययुक्तम् । द्वितीयसंहनने पट्टो नास्ति । तृतीये वज्रर्षभौ न स्तः । ततो वर्षभं अर्धवज्रर्षभं नाराचं चेत्यनेन चत्वारो भेदाः प्रतिपाद्याः उत्तमसंहननवाच्याः । उत्तमसंहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थम् । तस्योत्तमसंहननस्य एकाग्रचिन्तानुरोधो ध्यानम् । अग्रम्-आलम्बनं एकं च तदग्रं चेत्येकाग्रं, एकालम्बनमित्यर्थः। एकस्मिन्नालम्बने चिन्तानिरोधः । चलं चित्तमेव चिन्ता, तनिरोधस्तस्यैकत्रावस्थापनमन्यत्रोप्रचारो निरोधः । अतो निश्चलं स्थिरमध्यवसानमेकालम्बनं छबस्थविषयं ध्यानम् । केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानम्, अभावान्मनसः । नद्यवाप्तकेवलस्य
१छाया
यदपि च इदं शरीरमिष्टं कान्तम् । २ 'भमवज्रनाराचं च ' इति घ-पाठः । ३ 'नाराचं कीलका' इति ग-पाठः । ४ 'त्रिनयन' इति च-पाठः । ५'मन्यत्राथवा निरोधः' इति च-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org