________________
२५८
तार्थाधिगमसूत्रम्
[ अध्यायः
यन्तीति साधवो मोक्षम्, संयता इति मूलोत्तरगुणसम्पन्नाः द्वादशविधसम्भोगभाजः समनोज्ञानदर्शनचारित्राणि मनोज्ञानि सह मनोज्ञैः समनोज्ञाः तानि तानि वा सम्भोगकारणानि संविज्ञेष्वपि विद्यन्ते ॥
-
भा० – एषामन्नपानवस्त्र पात्र प्रतिश्रयपीठफलक संस्तारादिभिर्धर्मसाधनैरुपग्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गोपसर्गेषु अभ्युपपत्तिरित्येतदादि वैयावृत्त्यम् ॥ २४ ॥
-
टी० - एषामित्यादि । आचार्यादयः समनोज्ञान्ताः सम्बन्ध्यन्ते एषामित्यनेन । अन्नपानादयः प्रसिद्धाः तैरुपग्रहः – उपकारः । शुश्रूषा - विश्रामणादिका । भेषजक्रिया - मान्छे सति तदनुरूपभैषजसम्पादनम् । कान्तारम् - अरण्यम् । श्वापदबहुलत्वाद् विषमदुर्ग - गर्ता - कूपकण्टकादिप्रचितम् । उपसर्गो - ज्वरा - तीसार-कास- श्वास - मरकादिः । अभ्युपपत्तिःअभ्युद्धरणं परिपालनं परिरक्षणमन्नपानादि (भिः) यत् तद् वैयावृत्त्यमिति ॥ २४ ॥ सम्प्रति स्वाध्यायोऽभिधीयते -
स्वाध्यायस्य
पञ्चविधत्वम्
सूत्रम् — वाचना- प्रच्छना - ऽनुप्रेक्षा-ऽऽम्नाय - धर्मोपदेशाः ॥ ९–२५ ॥
भा० - स्वाध्यायः पञ्चविधः । तद्यथा - वाचना, प्रच्छनं, अनुप्रेक्षा, आनायः, धर्मोपदेश इति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं धर्मोपदेशस्य ग्रन्थार्थयोः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आपर्यायाः नायो घोषविशुद्धं परिवर्तनं गुणनं, रूपादानमित्यर्थः । अर्थोपदेशो व्याख्यानं अनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ।। २५ ।।
टी० – स्वाध्यायः पञ्चविध इत्यादि । तद्यथेत्यनेन भेदपञ्चकोपन्यासं सूचयति । तत्र वाचनेत्यादि । शिष्याणामध्यापनं वाचना कालिकस्योत्कालिकस्य वाऽऽलापकदानम् । ग्रन्थः सूत्रार्थः सूत्राभिधेयं तद्विषयं प्रच्छनम् । सन्देहे सति ग्रन्थार्थयोर्मनसाऽभ्यासोनुप्रेक्षा । न तु बहिर्वर्णोच्चारणमनुश्रावणीयम् । आम्नायोऽपि परिवर्तनं उदात्तादिपरिशुद्धमनुश्रावणीयमभ्यासविशेषः । गुणनं - सङ्ख्यानं पदाक्षरद्वारेण रूपादानमेकरूपम् । एका परिपाटी द्वे रूपे त्रीणि रूपाणीत्यादि । धर्मोपदेशस्तु सूत्रार्थकथनं व्याख्यानमनुयोगवर्णनमनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनर्थान्तरमिति ॥ २५ ॥
१ ' म्नाया' इति गन्पाठः । २ ' ग्रन्थः सूत्राभि० ' इति ग-ड-पाठः । ३' रुपदान० ' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org