SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ सूत्रं २४ ] सोपज्ञभाष्य टीकालङ्कृतम् २५७ हरयुपाध्यायः पृषोदरादित्वात् । सङ्ग्रहादीन वास्योपाध्येतीति संग्रहोपग्रहानुग्रहान् वाऽस्य सम्बन्धिनस्तत्समीपभवांस्तत्कृतानुपाध्येति स्मरतीति उपाध्यायः विसङ्ग्रहो निग्रन्थ इति । सगृह्यतेऽनेनेति सङ्ग्रहः । द्वाभ्यां सङ्गृह्यते इत्यर्थः॥ ... का पुनरियं प्रवर्तनीत्याह भा०-प्रवर्तनी दिगाचार्येण व्याख्याता। हिताय प्रवर्तते प्रवर्तयति चेति प्रवर्तनी ॥ टी-प्रवर्तनी दिगाचार्येण व्याख्यातेति । दिगाचार्यो दिशामनुजानाति । सचित्ताचित्तमिश्रप्रदायीत्यर्थः। तेन व्याख्याता तत्सदृशी द्रष्टव्या श्रुतसकलनिशीथाध्ययनासमुचितकल्पव्यवहारस्तत्र ग्राहिणी संविना प्राप्तदिगनुज्ञा चात्महिताय प्रवर्तते निःश्रेयसायैव घटते । अन्याश्च प्रवर्तयति साध्वीः स्मारणावधारणवारणादिप्रयोगेणेति प्रवर्तनी ॥ भा०-विकृष्टोग्रतपोयुक्तस्तपस्वी । अचिरप्रव्रजितः शिक्षयितव्यः शिक्षा, शिक्षामहतीति शैक्षो वा। ग्लानः प्रतीतः। गणः स्थविरसन्ततिसंस्थितिः । कुलं एकाचार्यसन्ततिसंस्थितिः । सङ्घश्चतुर्विधः श्रमणादिः । साधवः-संयताः। सम्भोगयुक्ताः समनोज्ञाः॥ टी-विकृष्टत्यादि। विकृष्टं-दशमादि किश्चिन्न्यूनषण्मासान्तं उग्रं-भावविशुद्धमनिश्रितमल्पसत्त्वस्य वा भयानकमुग्रं तपस्तेन युक्तस्तपस्वीति । अचिरप्रव्रजित इत्यादि। आद्यपश्चिमतीर्थयोर्मध्यमतीर्थेषु च कतिचिदहानि प्रतिपन्नस्य सामायिकस्य गतानि यस्य सोऽचिरप्रव्रजितः । अनारोपितविविक्तव्रतो वा ग्रहणासेवनशिक्षामुभयी शिक्षयितव्यः शिक्षः। शिक्षामहतीति । वा शिक्षाशीलो वा शैक्षः । छत्रादित्वाण्णप्रत्ययः । ग्लानो मन्दोऽपटुाध्यभिभूतः। प्रतीतः-सुज्ञात एवेत्यर्थः । कुलानि स्थानीयादीनि । कुलं-समुदायः। गणः-स्थविरसन्ततिसंस्थितिः। स्थविरग्रहणेन श्रुतस्थविरपरिग्रहः, न वयसा पर्यायेण वा, तेषां सन्ततिः-परम्परा तस्याः संस्थानं-वर्तनं अद्यापि भवनं संस्थितिः कुलमाचार्य र सन्ततिसंस्थितिः एकाचार्यप्रणेयसाधुसमूहो गच्छः । बहूनां गच्छानां पारया एकजातीयानां समूहः कुलम् । तत्र ये आचार्यगुणोपेतास्तत्सन्ततिसंस्थितिः कुलं तेषां प्राधान्यम् । सङ्घश्चतुर्विधः-साधु-साध्वी-श्रावक-श्राविकाः। तत्र ये व्यवस्थिताः ज्ञान-दर्शन-चरणगुणास्ते परमार्थतः सचः श्रमणादिरिति । 'पुरुषोत्तरो धर्म:' इति ज्ञापनार्थमुक्तम् । साधवः संयता इति । ज्ञानादिलक्षणाभिः पौरुषेयीभिः शक्तिभिः साध १'अविरते प्रव्रजित' इति घ-पाठः। २ 'आचार्य' इति घ-पाठः। ३ गुणो.यस्तत्' इति -पाठ । ४ “धम्मो पुरिसप्पभवो पुरिसवरदेसिओ पुरिसजिहो। लोए वि पहू पुरिसो किं पुण लोगुत्तमे धम्मे?॥" इत्युल्लेत उपदेशमालायो ( गा० १६ )। ५ ' लक्ष्याभिः' इति ग-पाठः । ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy