________________
२६८ तत्त्वार्थाधिगमसूत्रम् .
[अध्यायः९ नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते । केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्यपायमाजो दृश्यन्ते क्लिश्यन्ते इत्यतः प्रत्यवायनायेऽस्मिन् संसारेऽत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविर्भवति ।
तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते-विविधो विशिष्टो वा पाको विपाकःअनुभावः । अनुभावो रसानुभवः । कर्मणां नरक-तिर्यङ्-मनुष्या-ऽमरभवेषु तस्य विचयः--अनुचिन्तनं मार्गणं तदर्पितचेताः । तत्रैव स्मृतिं समन्वाहृत्य वर्तमानो विपाकविचयाध्यायी भवति। ज्ञानावरणादिकमष्टप्रकारं कर्म प्रकृति-स्थित्य-ऽनुभाव-प्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकम् । तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वम् । दर्शनावरणाचक्षुरादि
... वैकल्यं निद्रायुद्भवश्च । असद्वेद्याद् दुःखं, सद्वेद्यात् सुखानुभवः । मोहनीकर्माष्टकस्य
___ याद् विपरीतग्राहिता चारित्रविनिवृत्तिश्च । आयुषोऽनेकभवप्रादुर्भावः । २. फलानि
नाम्नोऽशुभप्रशस्तदेहादिनिर्वृत्तिः। गोत्रादुच्चनीचकुलोपपत्तिः । अन्तरायादलाभ इति । इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव स्मृतिसमन्वाहारतो धयं भवति ध्यानमिति ॥
संस्थानविचयं नाम चतुर्थं धर्मध्यानमुच्यते-संस्थानम्-आकारविशेषो लोकस्य द्रव्याणां च। लोकस्य तावत् तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकं स्थालमिव च तिर्यग्लोकमूर्ध्वमधोमल्लकसमुद्गम्। तत्रापि तिर्यग्लोको ज्योतिर्व्यन्तराकुलः। असङ्ख्येया द्वीप-समुद्रा वलयाकृतयो धर्मा-ऽधर्मा-ऽऽकाश-पुद्गल-जीवास्तिकायात्मका अनादिनिधनसनिवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि च । तथाऽऽत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद् , अरूपं कर्तारमुपभोक्तारं च स्वकृतकर्मणः शरीराकारं, मुक्तौ विभागहीनाकारम् । ऊर्ध्वलोको द्वादशकल्पा असकलसकलनिशाकरमण्डलाकृतयो नव ग्रैवेयकाणि पञ्च महाविमानानि मुक्ताधिवासश्च । अधोलोकोऽपि भवनवासिदेवों नारकाधिवसतिः । धर्माऽधर्मावपि लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणं, पुद्गलद्रव्यं शरीरादिकार्ये, इत्थं संस्थानस्वाभाव्यान्वेषणार्थ स्मृतिसमन्वाहारो धर्मध्यानमुच्यते । पदार्थस्वरूपपरिज्ञानं तत्त्वावबोधस्तत्वावबोधाच क्रियानुष्ठानं तदनुष्ठानान्मोक्षावाप्तिरिति । तदेतदप्रमत्तसंयतस्य भवति धर्मध्यानं प्रमत्तसंयतस्थानाद् विशुद्धयमानाध्यवसायोप्रमत्तस्थानमाप्नोति । यथोक्तम्
" निर्माता एव तथा, विशोधयोऽसङ्ख्यलोकमात्रास्ताः ।
तरतमयुक्ता या अधि-तिष्ठन् यतिरप्रमत्तः स्यात् ॥ १॥"-आर्या १'चारित्रेतिनिवृत्तिश्च' इति उ-पाठः। २: 'धय॑ध्यानं' इति ङ-पाठः। ३ 'तत्राधातुखगलंक' इति ड-पाठः। ४ 'देवनार' इति ङ-पाठः । ५ 'स्थान एव नरतच्छमाणकामाप्नोति' इति ग-पाठः। , ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org