SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सूत्र ३८] . स्वोपज्ञभाष्य-टीकालङ्कृतम् २६९ अतो विशुद्धाद्धायां वर्तमानोऽप्रमत्तसंयतस्तस्य च भगवतो धर्मध्यानादितपोयोगैः कर्माणि क्षपयतो विशोधिस्थानान्तराणि आरोहतः ऋद्धिविशेषाः प्रादुर्भवन्त्यणिमादयः । उक्तं हि "अवगाहते च स श्रुत जलधिं प्राप्नोति चावधिज्ञानम् । मानसपर्याय वा, विज्ञानं वा कोष्टादिबुद्धिर्वा ॥१॥-आर्या चारणवैक्रियसौं-पधा[वद्यावापि लब्धयस्तस्य । प्रादुर्भवन्ति गुणतो, बलानि वा मानसादीनि ॥ २ ॥"-, अत्र च श्रेणिप्राप्त्यभिमुखः प्रथमकषायान् दृष्टिमोहत्रयं चाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम उपशमश्रेण्याभिमुख्यादुपशमयति, क्षपकश्रेण्याभिमुख्यात् क्षपयति । यथोक्तम् "क्षपयति तेन ध्याने न ततोऽनन्तानुबन्धिनश्चतुरः।। मिथ्यात्वं संमिश्र, सम्यक्त्वं च क्रमेण ततः ॥१॥-आर्या क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च । देशयतायतसम्यग-दृगप्रमत्तप्रमत्तेषु ॥२॥ -, पाणिग्राहारीस्तान् , निहत्य विगतस्पृहो विदीर्णभयः। . प्रीतिसुखमपक्षोभः, प्राप्नोति समाधिमत्स्थानम् ॥३॥"-, इति ॥ ३७॥.. किश्चान्यदित्यनेन खाम्यन्तरं सम्बध्नाति सूत्रम्-उपशान्तक्षीणकषाययोश्च ॥९-३८॥ भा०–उपशान्तकषायस्य क्षीणकषायस्य च धर्म ध्यानं भवति ॥ ३८॥ किश्चान्यत् टी०-चशब्दः समुच्चये। कषायशब्दः प्रत्येकमभिसम्बध्यते । उपशान्ताः कषाया यस्यासावुपशान्तकषायः एकादशगुणस्थानवर्ती । क्षीणाः कषाया यस्य स क्षीणकषायः । भसच्छन्नाग्निवदुपशान्ताः निरवशेषतः परिशटिताः क्षीणा विध्मातहुताशनवदनयोश्च उपशान्तक्षीणकषाययोरप्रमत्तसंयतस्य च ध्यानं धर्म भवति । तत्रोपशान्तक्षीणकषायस्वरूपनिर्ज्ञानाय अधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयम् , अन्यथा तदपरिज्ञानमेव स्यादिति । अप्रमत्तस्थानादसङ्ख्येयानि विशोधिस्थानान्यारुह्यापूर्वकरणं प्रविशति । समये समये स्थिति-घात-रसघातस्थितिबन्ध-गुणश्रेणि-गुणसङ्क्रमणकरणमपूर्व निर्गच्छतीत्यपूर्वकरणम् । अप्राप्तपूर्वकत्वाद् वा १ "भिमुख ' इति ङ-पाठः । २ 'यतायतेन सम्यग्' इति च-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy