SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ २७० तवार्थाधिगमसूत्रम् । [ अध्यायः ९ संसारे तदपूर्वकरणम् । न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशमः क्षयो वा । उपशमनाभिमुख्यात् तत्पुरस्कारादुपशमकः क्षपणाहेत्वाच्च क्षपक इति । उक्तं च "स ततः क्षपकश्रेणिं, प्रतिपद्य चरित्रघातिनीः शेषाः। .. क्षपयन् मोहप्रकृतीः, प्रतिष्ठते शुद्धलेश्याकः॥१॥—आर्या प्रविशत्यपूर्वकरणं, प्रस्थित एवं ततोऽपरं स्थानम् । तदपूर्वकरणमिष्टं, कदाचिदप्राप्तपूर्वत्वात् ॥२॥" -, ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्या अनिवृत्तिस्थानं भवति । परस्परं नातिवर्तन्ते इत्यनिवृत्तयः । परस्परतुल्यवृत्तय इत्यर्थः। सम्परायाः कषायास्तदुदयो बादरो येषां ते बादरसम्परायाः । अनिवृत्तयश्च ते बादरसम्परायाश्च त इत्यर्थः। ते उपशमकाः क्षपकाश्च । तत्र नपुंसकस्त्रीवेदषट्नोकषायादिक्रमान्मोहप्रकृतीरुपशमकः शमयति “अणदंसणपुंसगइत्थिवेयछकं च पुरसवेयं च । दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ॥१॥"-आर्या -आवश्यकनियुक्तौ गा० ११६ क्षपको निद्रानिद्रादिउदय(यादित्रय?)क्षयात् त्रयोदशनामकर्मक्षयाचाप्रत्याख्यानावरणादि कपायाष्टकनपुंसकस्त्रीवेदक्रमाच क्षपयति । उक्तं च " अथ स क्षपयति निद्रा-निद्रादित्रयमशेषतस्तत्र । नरकगमनानुपूर्वी, नरकगतिं चापि कात्स्न्येन ॥ १॥-आर्या सूक्ष्मस्थाघरसाधा-रणातपोद्योतनामकर्माणि । तिर्यग्गतिनाम तथा, तिर्यग्गत्यानुपूयों च ॥२॥ -" चतुरेकद्वित्रीन्द्रिय-नामानि तथैव नाशमुपयान्ति । तिर्यग्गतियोग्यास्ताः, प्रकृतय एकादश प्रोक्ताः ॥३॥-, अष्टौ ततः कषायान् , पण्डकवेदं ततस्ततः स्त्रीत्वम् । क्षपयति पुंवेदे सङ्-क्रमय्य षण्णोकषायांश्च ॥४॥ -, पुंस्त्वं क्रोधे क्रोध, माने मानं तथैव मायायाम् । मायां च तथा लोभे, स क्षपयति सङ्क्रमय्य ततः ॥५॥-, १ छाया - अनदर्शनपुंसकस्त्रीवेदषट्कं च पुरुषवेदं च । द्वौ द्वौ एकान्तरितौ सदृशे सदृशं उपशामयति ॥ २ 'पूच्चि ' इति ग-पाठः, 'पूर्वी च ' इति च-पाठः। ३ 'पुंवेदो' इति ङ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy