________________
: सूत्रं ३८] .. स्वोपज्ञभाष्य-टीकालङ्कृतम्
२७१ लोभस्य यावद् बादरप्रकृतीर्वेदयति तावदनिवृत्तिबादरसम्परायसंयताः। ततः सूक्ष्मप्रकृतिवेदनाल्लोभकषायस्य सूक्ष्मसम्परायसंयतः उपशमकः सञ्ज्वलनलोभमुपशमयति क्षपका क्षपयति । यथोक्तम्
" अथ सूक्ष्मसम्पराय-स्थानं प्राप्नोति बादरे लोभे। क्षीणे सूक्ष्मे लोभे-कषायशेषे विशुद्धात्मा ॥१॥ यत् सम्परायमुपजन-यन्ति स्वयमपि च सम्परायन्ति । व्यासङ्गहेतवस्ते न कषायाः सम्परायाख्याः ॥२॥ सम्यग्भावपरायण-हेतुत्वाद् वापि सम्परायास्ते । प्रकृतिविशेषाच्च पुनर्लोभकषायस्य सूक्ष्मत्वम् ॥ ३॥ स ततो विशुद्धियोगे, नयति स्थानान्तरं व्रजस्तमपि ।
क्षपयन् गच्छति यावत्, क्षीणकषायत्वमाप्नोति ॥४॥" ततोऽष्टाविंशतिविधमोहनीयोपशमादुपशान्तकषायवीतरागश्छद्मस्थः वीतो-गतो (रागो यस्मादिति वीतरागः) छद्म-आवरणं तत्र स्थितः छद्मस्थः मोहनीयस्य कृत्स्नक्षयात् स क्षीणकपायवीतरागच्छद्मस्थः ततः क्षीणकषायो धर्मशुक्लाद्यद्वयध्यानविशेषाद् यथाख्यातसंयमविशुद्धयाऽवशेषाणि कर्माणि क्षपयति। तत्र निद्राप्रचले द्विचरमसमये क्षपयति। ततोऽस्य चरमसमये आवरणद्वयान्तरायक्षयात् केवलज्ञानदर्शनमुत्पद्यत इति । धर्मध्यानानुप्रवेशपरिकर्माणि च भावनादेशकालासनादीनि । तत्र चतस्रो भावना ज्ञान-दर्शन-चारित्र-वैराग्याख्याः। ज्ञाने नित्याभ्यासान्मनसः तत्रैव प्रणिधानमवगतगुणसारश्च निश्चलमतिरनायासेनैव धर्म्य ध्यायति । तथा विगतशङ्कादिशल्यः प्रशम-संवेगनिर्वेदा-ऽनुकम्पा-ऽऽस्तिक्य-स्थैर्य-प्रभावना-यतना-सेवन-भक्तियुक्तः असम्मूढचेता दर्शनभावनया विमलीकृतमतिरस्खलितमेव धर्म ध्यायति । तथा चरणभावनाधिष्ठितः कर्माण्यपराणि नादत्ते, पुरातननिर्जरणं शुभानि वा सञ्चिनुते । ततश्चायत्नेनैव धर्मध्यायी भवति । तथा जगत्कायस्वभावालोचनात् सुविदितजगत्स्वभावो निःसङ्गो निर्भयो विरागो वैराग्य भावनावष्टब्धचेताः लीलयैव धर्मध्यायी भवति । देशोऽपि निष्कण्टको यः। कण्टकाः स्त्री-पशु-पण्डकाः। कालोऽपि यस्मिन्नेव काले मनसः समाधिरुत्पद्यते स एव ध्यानकालः । यथोक्तम्
"थि कालो अकालो वा झायमाणस्स भिक्खुणो।" आसनं कायावस्थाविशेषः। य एवाबाधकोऽभ्यस्तो जितः स एव कायविकल्प आसनम् यथोक्तम्'-१'च शेषाणि' इति च-पाठः। २ 'विमलकृत' इति च-पाठः । छाया
नास्ति कालोऽकालो वा ध्यायमानस्य भिक्षोः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |