Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 364
________________ २६२ तत्त्वार्थाधिगमसूत्रम् , [ अध्यायः ९ भास्य प्रथमो सूत्रम्-आर्तममनोज्ञानां सम्प्रयोगे तदिप्रयोगाय विकल्पः स्मृतिसमन्वाहारः॥ ९-३१॥ भा०-अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थ यः स्मृतिसमन्वाहारो भवति तदातध्यानमित्याचक्षते ॥३१॥ किश्चान्यत् टी-आर्तमनोज्ञानां इत्यादि। आर्तशब्दः पूर्ववद् व्याख्येयः । अयं चापरप्रकारः। आर्तशब्दस्य - अर्तिीतुर्दुःखार्थः । तस्यार्तिरिति रूपम् । अर्तिश्च-दुःखं शारीरं मानसं चानेकप्रकारं तस्यां भवमात ध्यानम् । अमनोज्ञा-अनिष्टाः शब्दादयः - निष्पत्तिः " तेषां सम्बन्धे इन्द्रियेण सह सम्पर्के सति चतुर्णा शब्द-स्पर्श-रस-गन्धानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेस्तेनं विषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तधिप्रयोगायेति । तदित्यमनोज्ञविषयाभिसम्बन्धः । तेषाममनोज्ञानां शब्दादिनां विप्रयोगः अपगमस्तदर्थं विप्रयोगायानिष्टशब्दादिविषयपरिहाराय यः स्मृतिसमन्वाहारस्तदातम् । स्मृतिसमन्वाहारो नाम तद्विप्रयोगादेवानुग्रहप्रतिपत्तीच्छया य आत्मनः प्रणिधानविशेषः स समन्वाहारः स्मृतेः कथमहमसादमनोज्ञविषयसम्प्रयोगाद विमुच्येयेति । सर्यतेऽनेनेति स्मृतिमनोऽभिधीयते । स्मृतिहेतुत्वाद् वा स्मृतिर्मनः। तस्याः स्मृतेः प्रणिधानरूपायाः समन्वाहरणं समन्वाहारः । अमनोज्ञविषयविप्रयोगोपाये व्यवस्थापनं मनसो निश्चलमार्तध्यानं केनोपायेन वियोगः स्यादित्येकतानमनोनिवेशनमार्तध्यानमित्यर्थः ॥ ३१ ॥ किञ्चान्यदिति सम्बध्नाति। प्रकारान्तरमन्यदस्यार्तस्यास्तीत्याहआर्तस्य द्वितीयो "विकल्पः सूत्रम्-वेदनायाश्च ॥ ९-३२॥ टी-वेदन-वेदनाया अनुभवः । अनन्तरसूत्रमनुवर्तते तदभिसम्बभन् भाष्यकृदाह__ भा०-वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहार आर्तमिति ॥ ३२॥ किश्चान्यत् टी०-वेदनाया अमनोज्ञाया इत्यादि । सुखा दुःखा चोभयी वेदना । तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः प्रकुपितपवनपित्तश्लेष्मसनिपातनिमित्तैरुपजातायाः शूलशिरःकम्पज्वराक्षिश्रवणदशनादिकायास्तद्विप्रयोगाय स्मृतिसमन्वाहारो ध्यानमार्तमेष द्वितीयो विकल्पः । किश्चान्यदित्यातप्रकारान्तरं दर्शयति १ 'स्वेन' इति छ पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472