Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 336
________________ २३४ तत्वार्थाधिगमसूत्रम् [अध्यायः ९ यैरिति परिभुक्ततादृग्विधतपसः, निर्विष्टकायिका इत्यर्थः । परिहारविशुद्धिकं च तपः प्रतिपन्नानां नवको गच्छः । तत्र परिहाराचारिणश्चत्वारोऽनुपरिहारिणोऽपि चत्वारः कल्पस्थित एकः, वाचनाचार्य इत्यर्थः । सर्वेऽपि ते श्रुताद्यतिशयसम्पन्नाः तथापि रुच्या (रूढ्या ?) कल्पस्थित एकः कश्चिदवस्थाप्यते । तत्र ये कालभेदेन विहितं तपोऽनुतिष्ठन्ति ते परिहारिणः । नियताचाम्लभक्तास्त्वनुपरिहारिणस्तेषामेवाभिसराः, तपोग्लानानां परिहारियां सहायके वर्तन्ते । कल्पस्थितोऽपि नियताचाम्लभक्त एव । तच तपः परिहारिणां ग्रीष्मे चतुर्थषष्ठाष्टमभक्तलक्षणं जघन्यमध्यमोत्कृष्टं क्रमेणैव । शिशिरकाले षष्ठाष्टमदशमानि जघन्यमध्यमोत्कृष्टानि । वर्षास्वष्टमदशमद्वादशभक्तानि जघन्यमध्यमोत्कृष्टानि । पारणाकालेऽप्या चाम्लमेव पारयन्ति । उक्तविधानं तपः षण्मासं कृत्वा परिहारिणोऽनुपरिहारविशुद्धि परिहारित्वं प्रतिपद्यन्ते । अनुपरिहारिणश्च परिहारिणो भवन्ति । तेऽपि संयमस्य सीमा - षण्मासान् विदधते तत् तपः, पश्चात् कल्पस्थित एकाक्येव षण्मासावधिक परिहारतपः प्रतिपद्यते । तस्य चैकोऽनुपरिहारी भवति, तन्मध्ये अपरश्चैकः कल्पस्थित इति, एवमेष परिहारविशुद्धः संयमोऽष्टादशभिर्मासैः परिसमाप्तिमुपयाति । परिसमाते तु तस्मिन् पुनस्तदेव केचित् परिहारतपः प्रतिपद्यन्ते स्वशक्त्यपेक्षाः, केचिद् वा जिनकल्पम् , अपरे तु गच्छमेव वा विशन्तीति । परिहारविशुद्धिकाच स्थितकल्प एव प्रथमचरमतीर्थकरतीर्थयोरेव, न मध्यमतीर्थेष्विति । सूक्ष्मसम्परायसंयमस्तु श्रेणिमारोहतः प्रपततो वा भवति । - श्रेणिरपि द्विप्रकारा-औपशमिकी क्षायिकीच। तत्रौपशमिकी अनन्तानुबन्धिनो मिथ्यात्वादित्रयं नपुंसकत्रीवेदौ हास्यादिषट्कं पुंवेदः अप्रत्याख्यानावरणाः संज्वलनाश्चेति । अस्याश्च आरम्भकोप्रमत्तसंयतः। अपरे तु ब्रुवते-"अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतमः प्रारभते, र स चानन्तानुबन्धिनश्चतुरोऽपि समकमेव शमयति अन्तर्मुहूर्तेन, ततो का दर्शनत्रिकं, ततोऽनुदीर्ण पुमानारोहनपुंसकवेदं, ततः स्त्रीवेदं, योषिदारोश्रेणी " हन्ती, प्राग नपुंसकवेदं, ततः पुरुषवेदं, तृतीयप्रकृतिरधिरोहन प्राक् स्त्रीवेदं, ततः पुरुषवेदं, ततोऽपि हास्यादिषट्कं ततः (नपुंसक )पुंवेद, ततोऽप्रत्याख्यानानां प्रत्याख्यानावरणानां च युगपदेव द्वौ क्रोधौ संज्वलनक्रोधान्तरितौ शमयति, पश्चात् संज्वलनक्रोध, पुनी मानौ, पश्चात् संज्वलनमानं, पुनझै माये, ततः संज्वलनमायां, पुनद्वौ लोभी, पश्चात् संज्वलनलोभम् । सङ्ख्येयानि खण्डानि कृत्वा क्रमेण चोपशमय्य पश्चिमखण्डमसङ्ख्येयानि खण्डानि करोति । ततः प्रतिसमयमसङ्ख्येयभाममुपशमयन् समस्तमन्तमुहर्तेन शमयति। तचासङ्ख्येयभागान् शमयन् सूक्ष्मसम्परायसंचमी भवति । अत्यन्तकिशुद्धाध्यवसायो दशमगुणस्थानवर्ती, श्रेण्यारोहे च वर्धमानविशुद्धाध्यवसायस्य विशुद्धमवतरता १'षण्मासीं' इति ङ-च-पाठः। २ 'हारिणं' इति -पाठः। ३ 'सावधिकं' इति घ-च-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472