Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 337
________________ सूत्र १९) . स्वोपक्षमाय-टीकालङ्कृतम् २३५. सक्लिष्टाभ्यवसायस्य संक्लिष्ट, सूक्ष्मः-लक्ष्णावयवः सम्परायः-कषायः संसारभ्रान्तिहेतुर्यत्र तत् सूक्ष्मसम्परायम् । स चोपशान्तकषायोऽपि स्वल्पप्रत्ययलाभाद् दवदग्धाञ्जनद्रुमवदुदकासेचनादिप्रत्ययलाभादरादिरूपेण भस्मच्छन्नानिवद् वा वारिवन्धनादिप्रत्ययतः स्वरूपमुपदर्शयति, तद्वदसौ मुखवस्त्रिकादिषु ममत्वसमीरणेन सन्धुक्षमाणः कषायानिश्चरणेन्धनमामूलतो दहन प्रख्याव्यते प्रतिविशिष्टाध्यवसायादिति । क्षायिकी तु श्रेणिरनन्तानुबन्धिनो मिथ्यात्वमिश्रसम्यक्त्वानि अप्रत्याख्यानप्रत्याख्यानावरणाः नपुंसकस्त्रीवेदौ हास्यादिषट्कं पुंवेदः संज्वलनाथ, अस्याश्चोरोहकः अविरतदेशप्रमत्ताप्रमत्ताविरतानामन्यतमो विशुध्यमानाध्यवसायः। स र चानन्तानुबन्धिनो युगपदेव क्षपयत्यन्तर्मुहूर्तेन । ततः क्रमेण दर्शनत्रिकं, क्षपकश्रेणीवर्णनम् " ततोऽप्रत्याख्यानप्रत्याख्यानावरणांश्च युगपदेव क्षपयितुमारभते । विमध्य - भागे चैषामिमाः षोडश प्रकृतीः क्षपयति-नरकतिर्यग्गती एतदानुपूज्यों एकद्वित्रिचतुरिन्द्रियजातीयातपोद्दयोतस्थावरसाधारणसूक्ष्मनामानि, ततो निद्रानिद्राप्रचला. प्रचलास्त्यानीः , ततोऽष्टानां शेषं, ततोऽनुदीर्ण वेदं जघन्यं पूर्ववत् , ततो हास्यादिषट्कं, ततोऽप्युदितं वेदं, ततः संज्वलनानामेकैकं क्रमेण क्षपयति, सावशेषे च पूर्वसंज्वलनकषाये उत्तरं क्षपयितुमारभते । सर्वत्र पूर्वशेषं चोत्तरेणैव सह क्षपयति यावत् संज्वलनलोभसङ्ख्येयभागः। तमपि सख्येय( भाग)मसङ्ख्यानि खण्डानि कृत्वा प्रतिसमयमेकैकं खण्ड क्षपयति, तदा[पि] सूक्ष्मसम्परायसंयमी भवति । समस्तमोहनीयोपशमे तु एकादशगुणस्थानप्राप्त उपशान्तकषायो यथाख्यातसंयमी भवति । क्षपकस्तु सकलमोहार्णवमुत्तीर्णो निग्रन्थो यथाख्यातसंयमी जायते । अथशब्दो यथाशब्दार्थे । यथा ख्यातः संयमो भगवता तथाऽसावेव, कथं च ख्यातः १, अकषायः, स चैकादशद्वादशयोर्गुणस्थानयोः, उपशान्तत्वात् क्षीणत्वाञ्च कषायाभाव इति । एवं पञ्चविधं चारित्रमष्टविधकर्मचयरिक्तीकरणात् । तच पुलाकादिषु विस्तरेण वक्ष्यामः पुलाकादिसूत्रे उपरिष्टात् ( अ० ९, सू० ४८), पुलाकादिभेदेषु सामायिकादिसंयमः पश्चप्रकारोऽपि पञ्चसु पुलाकादिनिग्रन्थेषु विस्तरेण-प्रपञ्चेन भावयिष्यत इति ॥१८॥ उक्तं चारित्रं, प्रकीर्णकं च तपः, सम्प्रत्यनशनादिकं तपो भण्यते सा सूत्रम्-अनशना-ऽवमौदर्य-वृत्तिपरिसङ्ख्यान-रसपरिपइविधता त्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तपः॥९-१९॥ टी-द्विविधं तपः-बाह्यमभ्यन्तरं च, तत्र बाह्याभ्यन्तरशब्दार्थः प्राइनिरूपितः। तदेकैकं पोढा । तत्र बाघस्य तावद् भाष्यकारो भेदानाचष्टे षडपि सूत्रं विवृण्वन् बाह्यतपसः १ ‘न्धनादिमामूल' इति घ-पाठः । २ · स्त्वारोहकः' इति च-पाठः । ३ ' जातिरातपो' इति घ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472