Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 258
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ સૂત્ર-૩૬ विवृणोति-हिंसार्थ'मित्यादिना, स्पष्टम्, एतदर्थं दर्शयति- प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा, तच्च सत्त्वव्यापादनोद्बन्धनपरितापनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दं, तत्र स्मृति - समन्वाहारो रौद्रध्यानं, ये च व्यापादनोपायाः परस्य च दुःखोत्पादनोपायास्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः । प्रबलरागद्वेषमोहस्यानृतानन्दं द्वितीयमनृतप्रयोजनं कन्याक्षितिनिक्षेपव्यपलापपिशुनासत्यासद्भूतभूतघातातिसन्धानप्रवणमसदभिधानमनृतं, तत्परोपघातार्थमनुपरततीव्ररौद्राशयस्य स्मृतेः समन्वाहारस्तत्रैव दृढं प्रणिधानमनृतानन्दमिति । तीव्रसङ्क्लेशाध्यवसायस्य ध्यातुः स्तेयार्थं - स्तेयप्रयोजनमधुनोच्यते, प्रबलीभूतलोभप्रचाराहितसंस्कारस्यापास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलस्मृतिसमन्वाहारः परद्रव्यग्रहणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः । ૨૨૮ विषयसंरक्षणार्थं चेति चतुर्थो विकल्पः, तत्साधनान्यचेतनचेतनमिश्रवस्तूनि विषयशब्दवाच्यानि, विषीदन्ति वा प्राणिनो येषु परिभुञ्जानास्ते (? परिभुञ्जानेषु ते) विषया:, यथोक्तं " यद्यपि निषेव्यमाना मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥ १॥" विषयाणां च संरक्षणमेवमुक्तं - "परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोकौ, प्राप्तेषु रक्षणमुपभोगे चातृप्तिः' इत्थं च विषयसंरक्षाहितक्रौर्यस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षानन्दं रौद्रं भवति ध्यानं, तच्चैतदविरतदेशविरतस्वामिकं, तौ च पूर्वोक्तलक्षणौ, तयोरेव च, भवत्येतत् न प्रमत्तसंयतादीनामिति, रौद्रध्यायिनस्तीव्रसङ्क्लिष्टाः कापोतनीलकृष्णलेश्यास्तिस्त्रस्तदनुगमाच्च नरकगतिमूलमेतत्, लिङ्गा

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330