Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 262
________________ ૨૩૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ सूत्र-३७ आगमः तामाज्ञामित्थं विचिनुयात्-पर्यालोचयेत्, पूर्वापरविशुद्धां निपुणामशेषजीवनिकायहितामनवद्यां महारौं महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाद्यनिधनां "इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ नासी"त्यादि वचनात्, तथा संशयेऽप्येवं विचिन्वतोऽवितथवादिनः-क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथा भाषन्ते इत्याज्ञायाः स्मृतिसमन्वाहारः प्रथमं धर्मध्यानमाज्ञाविचयाख्यं, द्वितीयं अपायविचयं धर्म्यध्यानमुच्यते, अपाया-विपदः शारीरमानसानि दुःखानीति पर्यायाः तेषां विचयः-अन्वेषणं, इहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोत्तरप्रकृतिविभागापितजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते, केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्यपायभाजो दृश्यन्ते, ते क्लिश्यन्त इत्यतः प्रत्यपायप्रायेऽस्मिन् संसारे अत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविर्भवति, तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते, विविधो विशिष्टो वा पाको विपाक:-अनुभावः, अनुभावो रसानुभावः कर्मणां नरकतिर्यङ्मनुष्यामरभवेषु तस्य विचयः-अनुचिन्तनं मार्गणं तदर्पितस्तत्रैव स्मृति समाहृत्य वर्तमानो विपाकविचयध्यायी भवति, ज्ञानावरणादिकमष्टप्रकारं कर्म प्रकृतिस्थित्यनुभावप्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकं, तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वं दर्शनावरणाच्चक्षुरादिवैकल्यं निद्राद्युद्भवश्च असāद्याद् दुःखं सवेद्यात् सुखानुभवः, मोहनीयाद्विपरीतग्राहिता चारित्रविनिवृत्तिश्च, आयुषोऽनेकभवप्रादुर्भावो, नाम्नोऽशुभप्रशस्तदेहादिनिर्वृत्तिर्गोत्रादुच्चनीचकुलोत्पत्तिः, अन्तरायादलाभ इति, इत्थं निरुद्धचेतसः विपाकानुसरण एव स्मृतिसमन्वाहारतो धर्म्यं भवति ध्यानमिति । संस्थानविचयं नाम चतुर्थं धर्मध्यानमुच्यते, संस्थानं-आकारविशेषो लोकस्य द्रव्याणां च,

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330