Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 308
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ પુલાક આદિ પાંચ નિગ્રંથો સંબંધી વિશેષ વિચારણા– संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः ૨૭૮ સૂત્ર-૫૦ साध्याः ॥९-५०॥ सूत्रार्थ - संयम, श्रुत, प्रतिसेवना, तीर्थ, लिंग, वेश्या, उपपात, સ્થાન એ આઠ દ્વારોથી(=ભેદોથી) પુલાક વગેરે નિગ્રંથો સંબંધી વિચારણા કરવી જોઇએ. (૯-૫૦) भाष्यं - एते पुलाकादयः पञ्च निर्गन्थविशेषा एभिः संयमादिभिरनुयोगविकल्पैः साध्याः भवन्ति । तद्यथा संयमः । कः कस्मिन्संयमे भवतीति । उच्यते - पुलाकबकुशप्रतिसेवनाकुशीला द्वयोः संयमयोः सामायिके छेदोपस्थाप्ये च । कषायकुशीला द्वयोः परिहारविशुद्धौ सूक्ष्मसम्पराये च । निर्ग्रन्थस्नातकावेकस्मिन् यथाख्यातसंयमे । I श्रुतम् । पुलाकबकुशप्रतिसेवनाकुशीला उत्कृष्टेनाभिन्नाक्षरदशपूर्वधराः । कषायकुशीलनिर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशीलनिर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । श्रुतापगतः केवली स्नातक इति । I 1 प्रतिसेवना । पञ्चानां मूलगुणानां रात्रिभोजनविरतिषष्टानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके । बकुशो द्विविधः उपकरणबकुशः शरीरबकुशश्च । तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तो बहुविशेषोपकरणाकाङ्क्षायुक्तो नित्यं तत्प्रतिसंस्कारसेवी भिक्षुरुपकरणबकुशो भवति । शरीराभिष्वक्तचित्तो विभूषार्थं तत्प्रतिसंस्कारसेवी शरीरबकुशः । प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते। कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति ।

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330