Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૫૦ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૨૮૩ तु प्रतिषेवणामेवेच्छन्ति, कषायकुशीलाः परिहारविशुद्धिसंयमे सूक्ष्म(सम्पराय)संयमे च द्वयोरेव दर्शिता भाष्यकारेण, अपरे ब्रुवतेकषायकुशीलाः सामायिकादिषु चतुर्यु संयमेषु यथाख्यातसंयमरहितेषु वर्त्तन्ते, यथाह
आद्यचारित्रयोराद्यास्त्रय एकश्चतुर्वपि । निर्ग्रन्थस्नातकौ नित्यं, यथाख्यातचरित्रिणौ ॥१॥
प्रतिसेवनाकुशीलवत् कषायकुशीलोऽपि पञ्चभेद एव, निर्ग्रन्थः स्नातकश्च एकस्मिन्नेव यथाख्यातसंयमे वर्त्तते, उपशान्तक्षीणमोहा निर्ग्रन्थाः, स्नातकः सयोगायोगकेवलीति । निर्ग्रन्थोऽपि पञ्चभेद एव, प्रथमसमयाप्रथमसमयचरमसमयाचरमसमयसूक्ष्मभेदतः, स्नातकोऽपि पञ्चप्रकारः अच्छविरशबलोऽकर्मांशोऽपरिश्रावी संशुद्धज्ञानदर्शनधरश्चेति, छविः-शरीरं तदभावात् काययोगनिरोधे सत्यच्छविर्भवति, निरतिचारत्वादशबलः, क्षपितकर्मत्वादकाँशः, निष्क्रियत्वात् सकलयोगनिरोधे त्वपरिश्रावी, ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधर इति १॥
श्रुतं कियत् कस्येत्याह-पुलाकबकुशप्रतिसेवनाकुशीला अभिन्नाक्षराणि दश पूर्वाणि धारयन्ति, अभिन्न-अन्यूनमेकेनाप्यक्षरेण, अन्यूनानि दश पूर्वाणीत्यर्थः, उत्कर्षेण कषायकुशीलो निर्ग्रन्थश्चतुर्दशपूर्वधर उत्कर्षतः, जघन्येन पुलाकस्य नवमपूर्वान्तःपाति तृतीयमाचारवस्तु यावत् श्रुतं, बकुशकुशीलनिर्ग्रन्थानामष्टौ प्रवचनमातरः, श्रुतरहितः केवलीति, आगमस्त्वन्यथा व्यवस्थितः
"पुलाए णं भंते ! केवइयं सुयं अहिज्जेज्जा ?, गोयमाः जहण्णेणं नवमस्स पुव्वस्स तइयमाचारवत्थु, उक्कोसेणं नव पुव्वाई संपुन्नाई, बकुसपडिसेवणाकुसीला जहण्णेणं अट्ठ पवयणमायाओ, उक्कोसेणं 'नव १. 'दश' इति हस्तलिखितप्रतौ । 'चोद्दस' इति सिद्धसेनगणिकृतटीकायाम् ।
Loading... Page Navigation 1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330