________________
૨૩૨
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ सूत्र-३७ आगमः तामाज्ञामित्थं विचिनुयात्-पर्यालोचयेत्, पूर्वापरविशुद्धां निपुणामशेषजीवनिकायहितामनवद्यां महारौं महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाद्यनिधनां "इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ नासी"त्यादि वचनात्, तथा संशयेऽप्येवं विचिन्वतोऽवितथवादिनः-क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथा भाषन्ते इत्याज्ञायाः स्मृतिसमन्वाहारः प्रथमं धर्मध्यानमाज्ञाविचयाख्यं,
द्वितीयं अपायविचयं धर्म्यध्यानमुच्यते, अपाया-विपदः शारीरमानसानि दुःखानीति पर्यायाः तेषां विचयः-अन्वेषणं, इहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोत्तरप्रकृतिविभागापितजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते, केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्यपायभाजो दृश्यन्ते, ते क्लिश्यन्त इत्यतः प्रत्यपायप्रायेऽस्मिन् संसारे अत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविर्भवति,
तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते, विविधो विशिष्टो वा पाको विपाक:-अनुभावः, अनुभावो रसानुभावः कर्मणां नरकतिर्यङ्मनुष्यामरभवेषु तस्य विचयः-अनुचिन्तनं मार्गणं तदर्पितस्तत्रैव स्मृति समाहृत्य वर्तमानो विपाकविचयध्यायी भवति, ज्ञानावरणादिकमष्टप्रकारं कर्म प्रकृतिस्थित्यनुभावप्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकं, तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वं दर्शनावरणाच्चक्षुरादिवैकल्यं निद्राद्युद्भवश्च असāद्याद् दुःखं सवेद्यात् सुखानुभवः, मोहनीयाद्विपरीतग्राहिता चारित्रविनिवृत्तिश्च, आयुषोऽनेकभवप्रादुर्भावो, नाम्नोऽशुभप्रशस्तदेहादिनिर्वृत्तिर्गोत्रादुच्चनीचकुलोत्पत्तिः, अन्तरायादलाभ इति, इत्थं निरुद्धचेतसः विपाकानुसरण एव स्मृतिसमन्वाहारतो धर्म्यं भवति ध्यानमिति । संस्थानविचयं नाम चतुर्थं धर्मध्यानमुच्यते, संस्थानं-आकारविशेषो लोकस्य द्रव्याणां च,