Book Title: Tattvarthadhigam Sutram Part 09
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 301
________________ ૨૭૧ સૂત્ર-૪૯ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ प्रक्षालितचोलपट्टकान्तरकल्पादिश्चोक्षकवासःप्रियः पात्रदण्डकाद्यपि तैलमात्रयोज्ज्वलीकृत्य विभूषार्थमनुवर्तमानो बिभर्ति, ऋद्धिः प्रभूतवस्त्रपात्रादिका तामिच्छन्ति-कामयन्ते यशः ख्यातिः गुणवन्तो विशिष्टाः साधव इत्येवंविधः प्रवादस्तच्च यशः कामयन्ति इति ऋद्धियशःकामाः, सातगौरवमाश्रिता इति सुखशीलता सातागौरवं तदाश्रिताः, आदरवचनो गौरवशब्दः, सुखे य आदरस्तदवाप्तिव्यापारप्रवणता तदाश्रिताः, नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः, अविविक्ता इति नासंयमात् पृथग्भूताः घृष्टजङ्घाः तैलादिकृतशरीरमृजः कतरिकाकल्पितकेशाः, एवंविधः परिवारो येषां तेऽविविक्तपरिवाराः सर्वदेशच्छेदा तिचारजनितशबलेन वैचित्र्येण युक्ताः, एवंविधा निर्ग्रन्था बकुशसंज्ञाः । [कुशीलाच] कुशीलस्वरूपनिर्धारणायाह-कुशीला द्विविधा इत्यादि अष्टादशसहस्रभेदं शीलं तदुत्तरगुणभङ्गेन केनचित् कषायोदयेन कुत्सितं शीलं येषां ते कुशीलाः द्विप्रकाराः, तत्प्रकाराख्यानायाह-प्रतिसेवनाकुशीलाः कषायकुशीलाश्च आसेवनं भजनं प्रतिसेवना तया कुत्सितं शीलमेषामिति प्रतिसेवनाकुशीलाः, कषायाः-सज्वलनाख्याः तदुदयात् कुत्सितं शीलं एषामिति कषायकुशीलाः, तत्र तयोः प्रसेवनाकुशीला नैर्ग्रन्थ्यं प्रति प्रस्थिताः अनियतेन्द्रियाः इन्द्रियनियमशून्या रूपादिविषयेक्षणकृतादराः कथञ्चित् केनचित् प्रकारेण व्याजमुपदिश्य किञ्चिदेवोत्तरगुणेषु पिण्डविशुद्धिसमितिभावनातपःप्रतिमाभिग्रहादिषु विराधयन्तः खण्डयन्तोऽतिचरन्तः सर्वज्ञाज्ञोल्लङ्घनमाचरन्ते ते प्रतिसेवनाकुशीलाः ।। येषामित्यादिना कषायकुशीलानाचष्टे, येषां संयतानां सतां मूलोत्तरगुणसम्पदुपेतानामपि भवतां कथञ्चित् केनचित् प्रकारेण अल्पेनापि हेतुना कुड्यकाष्ठलोष्टविषमकाश्यपीप्रस्खलनादिना सञ्चलनकषायाः क्रोधादयः

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330