________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૩૬
विवृणोति-हिंसार्थ'मित्यादिना, स्पष्टम्, एतदर्थं दर्शयति- प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा, तच्च सत्त्वव्यापादनोद्बन्धनपरितापनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दं, तत्र स्मृति - समन्वाहारो रौद्रध्यानं, ये च व्यापादनोपायाः परस्य च दुःखोत्पादनोपायास्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः ।
प्रबलरागद्वेषमोहस्यानृतानन्दं द्वितीयमनृतप्रयोजनं कन्याक्षितिनिक्षेपव्यपलापपिशुनासत्यासद्भूतभूतघातातिसन्धानप्रवणमसदभिधानमनृतं, तत्परोपघातार्थमनुपरततीव्ररौद्राशयस्य स्मृतेः समन्वाहारस्तत्रैव दृढं प्रणिधानमनृतानन्दमिति ।
तीव्रसङ्क्लेशाध्यवसायस्य ध्यातुः
स्तेयार्थं - स्तेयप्रयोजनमधुनोच्यते, प्रबलीभूतलोभप्रचाराहितसंस्कारस्यापास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलस्मृतिसमन्वाहारः परद्रव्यग्रहणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः ।
૨૨૮
विषयसंरक्षणार्थं चेति चतुर्थो विकल्पः, तत्साधनान्यचेतनचेतनमिश्रवस्तूनि विषयशब्दवाच्यानि, विषीदन्ति वा प्राणिनो येषु परिभुञ्जानास्ते (? परिभुञ्जानेषु ते) विषया:, यथोक्तं
" यद्यपि निषेव्यमाना मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥ १॥"
विषयाणां च संरक्षणमेवमुक्तं - "परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोकौ, प्राप्तेषु रक्षणमुपभोगे चातृप्तिः' इत्थं च विषयसंरक्षाहितक्रौर्यस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षानन्दं रौद्रं भवति ध्यानं, तच्चैतदविरतदेशविरतस्वामिकं, तौ च पूर्वोक्तलक्षणौ, तयोरेव च, भवत्येतत् न प्रमत्तसंयतादीनामिति, रौद्रध्यायिनस्तीव्रसङ्क्लिष्टाः कापोतनीलकृष्णलेश्यास्तिस्त्रस्तदनुगमाच्च नरकगतिमूलमेतत्, लिङ्गा