Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 34
________________ तत्त्वार्थाधिगमसूत्रम् धारणा प्रतिपत्तिर्यथास्वं मत्यवस्थानमवधारणं च 1 धारणा प्रतिपत्तिरवधारणमवस्थानं निश्चयोऽवगमः अवबोध इत्यनर्थान्तरम् ||१५|| बहुबहुविधक्षिप्रानिश्रितानुक्तध्रुवाणां सेतराणाम् ॥१६॥ अवग्रहादयश्चत्वारो मतिज्ञानविभागा एषां बह्वादीनामर्थानां सेतराणां भवन्त्येकशः । सेतराणामिति सप्रतिपक्षाणामित्यर्थः । बह्ववगृह्णाति अल्पमवगृह्णाति । बहुविधमवगृह्णाति एकविधमवगृह्णाति । क्षिप्रमवगृह्णाति चिरेणावगृह्णाति । अनिश्रितमवगृह्णाति निश्रितमवगृह्णाति । अनुक्तमवगृह्णाति उक्तमवगृह्णाति । ध्रुवमवगृह्णाति अध्रुवमवगृह्णाति । ' इत्येवमीहादीनामपि विद्यात् ॥१६॥ १७ अर्थस्य ॥ १७ ॥ अवग्रहादयो मतिज्ञानविकल्पा 'अर्थस्य भवन्ति ॥ १७ ॥ व्यञ्जनस्यावग्रहः ॥ १८ ॥ 'व्यञ्जनस्यावग्रह एव भवति नेहादयः । एवं द्विविधोऽवग्रहो व्यञ्जनस्यार्थस्य च । ईहादयस्त्वर्थस्यैव ॥ १८ ॥ न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥ चक्षुषा ४ नोइन्द्रियेण च व्यञ्जनावग्रहो न " भवति । चतुर्भिरिन्द्रियैः क्षयोपशमोत्कर्षापकर्षादिवम् ईहादीनामपि ईहापायधारणानामपि जानीयाद् । बहवीह अल्पमीहते बहुविधमीहते एकविधमीहते क्षिप्रमीहते चिरेणेहते अनिश्रितमीह निश्रितमीहते उक्तमीहते अनुक्तमीहते । द्वितीयविकल्पे निश्चितमीहते सन्दिग्धमीहते ध्रुवमीहते अध्रुवमीहते । एवमपायेऽपि बह्वपैतीत्यादयो द्वादशविकल्पाः धारणायां च बहु धारयतीत्यादयो द्वादशैव, एवमवग्रहादीनां स्वस्थाने द्वादशविधम् । १ एवमित्यनेनैतत् कथयति-यथा विषयस्य बह्वादेर्भेदाद् द्वादशप्रकारोऽवग्रहोऽभिहितः । २ अर्थ: स्पर्शरसगन्धवर्णशब्दात्मकस्तस्य स्पर्शादिरर्थस्यावग्रहादयोऽवच्छेदका मतिज्ञानविकल्पाः- मतिज्ञानस्येन्द्रियादिभेदेनाविभक्तस्य विकल्पा अंशा इत्यर्थः । ३ व्यज्यते प्रकटीक्रियतेऽर्थो येन दीपेनेव घटः, तद् व्यञ्जनम् । व्यञ्जनमुपकरणेन्द्रियस्पर्शाद्याकारपरिणतद्रव्यसंबन्धस्तस्यावग्रह एवैको भवति । तथा ४ नोइन्द्रियम्-मनः । ५ चक्षुषा नोइन्द्रियेण च, मनओघज्ञानरूपेण च, सह ते रूपाकारपरिणताः पुद्गलाश्चिन्त्य - मानाश्च वस्तुविशेषाः संश्लेषं न यान्ति अतो व्यञ्जनं चक्षुरुपकरणेन्द्रियनोइन्द्रिययोर्न भवति ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218