Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 40
________________ तत्त्वार्थाधिगमसूत्रम् २३ अत्राह । कोऽनयोः प्रतिविशेष इति । अत्रोच्यतेविशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ २५ ॥ 1 विशुद्धिकृतश्चाप्रतिपातकृतश्चानयोः प्रतिविशेषः । तद्यथा । ऋजुमतिमनःपर्यायाद्विपुलमतिमनः पर्यायज्ञानं विशुद्धतरम् । किं चान्यत् ऋजुमतिमनःपर्यायज्ञानं प्रतिपत' त्यपि भूयः । विपुलमतिमनः पर्यायज्ञानं तु न प्रतिपततीति ।। २५ ॥ अत्राह । अथावधिमनः पर्यायज्ञानयोः कः प्रतिविशेष इति । अत्रोच्यतेविशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनः पर्याययोः ॥ २६ ॥ विशुद्धिकृतः क्षेत्रकृतः स्वामिकृतो विषयकृतश्चानयोर्विशेषो भवत्यवधिमनःपर्यायज्ञानयोः ।। तद्यथा । अवधिज्ञानान्मनःपर्यायज्ञानं विशुद्धतरम् । यावन्ति हि रूपीणि द्रव्याण्यवधिज्ञानी जानीते तानि मनः पर्यायज्ञानी विशुद्धतराणि मनोगतानि जानीते ॥ किं चान्यत् । क्षेत्रकृतश्चानयोः प्रतिविशेषः । अवधिज्ञानं संयतस्य' असंयतस्य वा सर्वगतिषु भवति । मनःपर्यायज्ञानं तु मनुष्यसंयतस्यैव भवति नान्यस्य ॥ किं चान्यत् । विषयकृतश्चानयोः प्रतिविशेषः । रूपि द्रव्येष्वसर्व पर्यायेष्ववधेर्विषयनि 'बन्धो भवति I तदनन्तभागे मनः पर्यायस्येति ।। २६ ॥ अत्राह । उक्तं मनः पर्यायज्ञानम् । अथ केवलज्ञानं किमिति । अत्रोच्यते । केवलज्ञानं दशमेऽध्याये वक्ष्यते । मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलमिति । (१०.१) १ प्रतिपतति - प्रच्यवते । २ पापजनक व्यापारात्सर्वथा विरतस्य मुनेः । ३ पूर्वोक्तविपरीतस्य । ४ रूपिद्रव्येषु - परमाण्वादिषु । ५ एकज्ञानविषयतया सर्वपर्यायरहितेषु । ६ विषयनिबन्धः-गोचरनिबन्धः । तद्धि एकैकस्य परमाणोः कदाचित् असंख्येयान् पर्यायान् जानाति कदाचित् संख्येयान् जघन्येन चतुरो रूपरसगन्धस्पर्शान् । न तु कदाप्यनन्तान् । केवलज्ञानस्यैवानन्तपर्यायग्राहकत्वात् । मनःपर्यायज्ञानस्य तु रूपिद्रव्याणि न सर्वाणि विषयः, अवधिज्ञानज्ञातानां द्रव्याणामनन्तभागीकृतानां य एकोऽनन्तभागस्तस्मिन्नेवास्य विषयनिबन्धः । तस्मादतीन्द्रियत्वादितौल्येऽप्यवधिमनः पर्याययोर्भेद इति सिद्धम् ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218