Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh

View full book text
Previous | Next

Page 160
________________ १४३ तत्त्वार्थाधिगमसूत्रम् मिथ्यादुष्कृतसंप्रयुक्तः प्रत्यवमर्शः, प्रत्याख्यानं कायोत्सर्गकरणं च । एतदुभयमालोचनप्रतिक्रमणे । विवेको विवेचनं विशोधनं प्रत्युपेक्षणमित्यनान्तरम् । स एष संसक्तानपानोपकरणादिषु भवति । व्युत्सर्गः प्रतिष्ठापनमित्यनर्थान्तरम् । एषोऽप्यनेषणीयानपानोपकरणादिष्वशङ्कनीयविवेकेषु च भवति । तपो बाह्यमनशनादि प्रकीर्णं चानेकविधं चन्द्रप्रतिमादि । छेदोऽपवर्तनमपहार इत्यनर्थान्तरम् । स प्रव्रज्यादिवसपक्षमाससंवत्सराणामन्यतमानाम् भवति । परिहारो मासिकादिः । उपस्थापनं पुनर्दीक्षणं पुनश्चरणं पुनव्रतारोपणमित्यनर्थान्तरम् । तदेतन्नवविधं प्रायश्चित्तं देशं कालं शक्ति संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशुद्ध्यर्थं यथार्ह दीयते चाचर्यते च । चिती संज्ञानविशुद्ध्योर्धातुः । तस्य चित्तमिति भवति निष्ठान्तमौणादिकं च ॥ एवमेभिरालोचनादिभिः कृच्छ्रेस्तपोविशेषैनिताप्रमादः तं व्यतिक्रम प्रायश्चेतयति, चेतयंश्च न पुनराचरतीति । ततः प्रायश्चित्तम्, अपराधो वा प्रायस्तेन विशुध्यत इति । अतश्च प्रायश्चित्तमिति ॥२२॥ ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥ विनयश्चतुर्भेदः । तद्यथा । ज्ञानविनयः दर्शनविनयः चारित्रविनयः उपचारविनयः । तत्र ज्ञानविनयः पञ्चविधः मतिज्ञानादि । दर्शनविनय एकविध एव सम्यग्दर्शनविनयः । चारित्रविनयः पञ्चविधः सामायिकविनयादिः । औपचारिकविनयोऽनेकविधः सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेषु, अभ्युत्थानासनप्रदानवन्दनानुगमादिः । विनीयते तेन तस्मिन्वा विनयः ।। २३ ॥ आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङ्घसाधुसमनोज्ञानाम् ॥ २४ ॥ वैयावृत्त्यं दशविधं । तद्यथा । आचार्यवैयावृत्त्यं, उपाध्यायवैयावृत्त्यं, तपस्विवैयावृत्त्यं, शैक्षकवैयावृत्त्यं, ग्लानवैयावृत्त्यं, कुलवैयावृत्त्यं, गणवैयावृत्त्यं,. संघवैयावृत्त्यं, साधुवैयावृत्त्यं, समनोज्ञवैयावृत्त्यमिति । व्यावृत्तभावो वैयावृत्त्यं व्यावृत्तकर्म च । तत्राचार्यः 'पूर्वोक्तः पञ्चविधः । आचारगोचरविनयं स्वाध्यायं वाऽऽचार्यादनु तस्मादुपाधीयत इत्युपाध्यायः । संग्रहोपग्रहानुग्रहार्थं चोपाधीयते संग्रहादीन् वाऽस्योपाध्येति इत्युपाध्यायः । द्विसंग्रहो निर्ग्रन्थ आचार्योपाध्यायसंग्रहः त्रिसंग्रहा निर्ग्रन्थी आचार्योपाध्यायप्रवर्तिनीसंग्रहा। प्रवर्तिनी दिगाचार्येण व्याख्याता । १. अ. ९ सू. ६.

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218