________________
१४३
तत्त्वार्थाधिगमसूत्रम् मिथ्यादुष्कृतसंप्रयुक्तः प्रत्यवमर्शः, प्रत्याख्यानं कायोत्सर्गकरणं च । एतदुभयमालोचनप्रतिक्रमणे । विवेको विवेचनं विशोधनं प्रत्युपेक्षणमित्यनान्तरम् । स एष संसक्तानपानोपकरणादिषु भवति । व्युत्सर्गः प्रतिष्ठापनमित्यनर्थान्तरम् । एषोऽप्यनेषणीयानपानोपकरणादिष्वशङ्कनीयविवेकेषु च भवति । तपो बाह्यमनशनादि प्रकीर्णं चानेकविधं चन्द्रप्रतिमादि । छेदोऽपवर्तनमपहार इत्यनर्थान्तरम् । स प्रव्रज्यादिवसपक्षमाससंवत्सराणामन्यतमानाम् भवति । परिहारो मासिकादिः । उपस्थापनं पुनर्दीक्षणं पुनश्चरणं पुनव्रतारोपणमित्यनर्थान्तरम् । तदेतन्नवविधं प्रायश्चित्तं देशं कालं शक्ति संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशुद्ध्यर्थं यथार्ह दीयते चाचर्यते च । चिती संज्ञानविशुद्ध्योर्धातुः । तस्य चित्तमिति भवति निष्ठान्तमौणादिकं च ॥
एवमेभिरालोचनादिभिः कृच्छ्रेस्तपोविशेषैनिताप्रमादः तं व्यतिक्रम प्रायश्चेतयति, चेतयंश्च न पुनराचरतीति । ततः प्रायश्चित्तम्, अपराधो वा प्रायस्तेन विशुध्यत इति । अतश्च प्रायश्चित्तमिति ॥२२॥
ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥ विनयश्चतुर्भेदः । तद्यथा । ज्ञानविनयः दर्शनविनयः चारित्रविनयः उपचारविनयः । तत्र ज्ञानविनयः पञ्चविधः मतिज्ञानादि । दर्शनविनय एकविध एव सम्यग्दर्शनविनयः । चारित्रविनयः पञ्चविधः सामायिकविनयादिः । औपचारिकविनयोऽनेकविधः सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेषु, अभ्युत्थानासनप्रदानवन्दनानुगमादिः । विनीयते तेन तस्मिन्वा विनयः ।। २३ ॥ आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङ्घसाधुसमनोज्ञानाम् ॥ २४ ॥
वैयावृत्त्यं दशविधं । तद्यथा । आचार्यवैयावृत्त्यं, उपाध्यायवैयावृत्त्यं, तपस्विवैयावृत्त्यं, शैक्षकवैयावृत्त्यं, ग्लानवैयावृत्त्यं, कुलवैयावृत्त्यं, गणवैयावृत्त्यं,. संघवैयावृत्त्यं, साधुवैयावृत्त्यं, समनोज्ञवैयावृत्त्यमिति । व्यावृत्तभावो वैयावृत्त्यं व्यावृत्तकर्म च । तत्राचार्यः 'पूर्वोक्तः पञ्चविधः । आचारगोचरविनयं स्वाध्यायं वाऽऽचार्यादनु तस्मादुपाधीयत इत्युपाध्यायः । संग्रहोपग्रहानुग्रहार्थं चोपाधीयते संग्रहादीन् वाऽस्योपाध्येति इत्युपाध्यायः । द्विसंग्रहो निर्ग्रन्थ आचार्योपाध्यायसंग्रहः त्रिसंग्रहा निर्ग्रन्थी आचार्योपाध्यायप्रवर्तिनीसंग्रहा। प्रवर्तिनी दिगाचार्येण व्याख्याता ।
१.
अ. ९ सू. ६.