________________
९-३०
१४४
हिताय प्रवर्तते प्रवर्तयति चेति प्रवर्तिनी । विकृष्टोग्रतपोयुक्तस्तपस्वी । अचिरप्रव्रजितः शिक्षयितव्यः शिक्षः, शिक्षामर्हतीति शैक्षो वा । ग्लानः प्रतीतः । गणः स्थविरसन्ततिसंस्थितिः । कुलमाचार्यसंततिसंस्थितिः । संघश्चतुर्विधः श्रमणादिः । साधवः संयताः । संभोगयुक्ताः समनोज्ञाः 1 एषामन्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारादिभिर्धर्मसाधनैरूपग्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गोपसर्गेष्वेभ्युपपत्तिरित्येतदादि वैयावृत्त्यम् ॥ २४ ॥
वाचनाप्रच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥ २५ ॥
स्वाध्यायः पञ्चविधः । तद्यथा । वाचना प्रच्छनं अनुप्रेक्षा आम्नायः धर्मोपदेश इति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आम्नायो घोषविशुद्धं परिवर्तनं गुणनं रूपदानमित्यर्थः । अर्थोपदेशो व्याख्यानमनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ॥ २५ ॥
बाह्याभ्यन्तरोपध्योः ॥ २६ ॥
व्युत्सर्गे द्विविधः बाह्य आभ्यन्तरश्च । तत्र बाह्यो द्वादशरूपकस्योपधेः । आभ्यन्तरः शरीरस्य कषायाणां चेति ॥ २६ ॥
उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥ २७ ॥
उत्तमसंहननं वज्रर्षभमर्धवज्रनाराचं च । तद्युक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् ॥ २७ ॥
आमुहूर्तात् ॥ २८ ॥
तद्ध्यानमामुहूर्ताद्भवति, परतो न भवति दुर्ध्यानत्वात् ॥२८॥ आर्तरौद्रधर्मशुक्लानि ॥ २९ ॥
तच्चतुर्विधं भवति । तद्यथा । ' आर्तं रौद्रं धर्मं शुक्लमिति तेषाम् ।२९। परे मोक्षहेतू ॥ ३० ॥
१. शोकाक्रन्दनविलपनादिरूपत्वम् ।
२. क्रूरपरिणामादिरूपत्वम् ।
३. जिनप्रणीतभावश्रद्धानादिनिमित्तकत्वम् ।