________________
तत्त्वार्थाधिगमसूत्रम्
१४५ __ तेषां चतुर्णां ध्यामानां परे धर्मशुक्ले मोक्षहेतू भवतः । पूर्वे त्वार्तरौद्रे संसारहेतू इति ॥ ३०॥
अत्राह । किमेषां लक्षणमिति । अत्रोच्यते - आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ३१ ॥
'अमनोज्ञानां विषयाणां संप्रयोगे तेषां विप्रयोगार्थं यः स्मृतिसमन्वाहारो भवति तदार्तध्यानमित्याचक्षते ।। ३१ ॥ किं चान्यत्
वेदनायाश्च ॥ ३२ ॥ वेदनायाश्चामनोज्ञायाः संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहार आर्तमिति ॥३२॥ किं चान्यत्
- विपरीतं मनोज्ञानाम् ॥ ३३ ॥ मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्संप्रयोगाय स्मृतिसमन्वाहार आर्तम् ॥ ३३ ॥ किं चान्यत्
निदानं च ॥ ३४ ॥ कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति ॥ ३४ ॥
तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३५॥ तदेतदार्तध्यानमविरतदेशविरतप्रमत्तसंयतानामेव भवति ।३५।। हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ३६ ॥
हिंसार्थमनृतवचनार्थं स्तेयार्थं विषयसंरक्षणार्थं च स्मृतिसमन्वाहारो रौद्रध्यानं तदविरतदेशविरतयोरेव भवति ।। ३६ ॥
आज्ञापायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्य ॥ ३७ ॥
आज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविचयाय च १. अबाध्यासंमोहादिकरणरूपत्वम् ।