________________
१४६
-
९-४४
स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति ॥ ३७॥ - किं चान्यत्
उपशान्तक्षीणकषाययोश्च ॥ ३८ ॥ उपशान्तकषायस्य क्षीणकषायस्य च धर्मं ध्यानं भवति ॥ ३८ ॥ किं चान्यत्
शुक्ले चाये ॥ ३९ ॥ शुक्ले चाद्ये ध्याने पृथक्त्ववितर्कैकत्ववितर्के चोपशान्तक्षीणकषाययोर्भवतः॥३९॥
पूर्वविदः ॥४०॥ आये शुक्ले ध्याने पृथक्त्ववितर्कैकत्ववितर्के पूर्वविदो भवतः ॥ ४०॥
परे केवलिनः ॥ ४१ ॥ परे द्वे शुक्लध्याने केवलिन एव भवतः, न छद्मस्थस्य ॥ ४१ ॥ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि ॥ ४२ ॥
पृथक्त्ववितर्कं एकत्ववितर्क काययोगानां सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रियानिवृत्तीति चतुर्विधं शुक्लध्यानम् ॥ ४२ ॥
तत् त्र्येककाययोगायोगानाम् ॥ ४३ ॥ तदेतच्चतुर्विधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति । तत्र त्रियोगानां पृथक्त्ववितर्कम्, एकान्यतमयोगानामेकत्ववितर्क, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरतक्रियमनिवृत्तीति॥४३॥
एकाश्रये सवितर्के पूर्वे ॥ ४४ ॥ एकद्रव्याश्रये सवितर्के पूर्वे ध्याने प्रथमद्वितीये ॥ ४३ ॥ तत्र 'सविचारं प्रथमम् ।
१. अमनोज्ञः-अप्रियः ।। २. अविचारं द्वितीयमिति वचनादर्थलभ्यं सविचारं प्रथममिति । श्रीहरिभद्रसूरयस्तु अविचारं
द्वितीयमिति सूत्रमालोच्य सविचारं प्रथममिति भाष्यं ग्रथितं इति वदन्ति ।