________________
तत्त्वार्थाधिगमसूत्रम्
१४७
__ अविचारं द्वितीयम् ॥ ४५ ॥ अविचारं सवितर्क द्वितीयं ध्यानं भवति ॥ ४५ ॥ अत्राह । वितर्कविचारयोः कः प्रतिविशेष इति । अत्रोच्यते
वितर्कः श्रुतम् ॥ ४६ ॥ यथोक्तं श्रुतज्ञानं वितर्को भवति ॥ ४६ ॥
विचारोऽर्थव्यानयोगसंक्रान्तिः ॥ ४७ ॥ अर्थव्यञ्जनयोगसंक्रान्तिर्विचार इति ॥
तदाभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधकं निर्जरणफलत्वात्कर्मनिर्जरकम् । अभिनवकर्मोपचयप्रतिषेधकत्वात्पूर्वोपचितकर्मनिर्जरकत्वाच्च निर्वाणप्रापकमिति ।। ४७ ॥ ____ अत्राह । उक्तं भवता परीषहजयात्तपसोऽनुभावतश्च कर्मनिर्जरा भवतीति । तत्किं सर्वे सम्यग्दृष्टयः समनिर्जरा आहोस्विदस्ति कश्चिप्रतिविशेष इति । अत्रोच्यते ।
सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽस
संख्येयगुणनिर्जराः ॥ ४८ ॥ 'सम्यग्दृष्टि श्रावकः विरतः अनन्तानुबन्धिवियोजकः 'दर्शनमोहक्षपकः
१. सम्यग्दृष्टिभाक् । २. आचार्यप्रभृतीन् पर्युपासीनः प्रवचनसारं श्रृणोतीति श्रावकः । श्रृण्वंश्चं
सकलचरणकरणाक्षमो गृहस्थयोग्यमणुगुणशिक्षाव्रतलक्षणधर्ममनुतिष्ठति यथाशक्ति वा ।
द्वादशप्रकारस्य धर्मस्यैकदेशानुष्ठाय्यपि श्रावक एव | ३. साधुधर्मानुष्ठायी सर्वस्मात्प्राणातिपाताधावजीवं विरतः । ४. अनन्तः संसारस्तदनुबन्धिनोऽनन्ताः क्रोधादयः । तान् वियोजयत्युपशमयति । ५. दर्शनमोहोऽनन्तानुबन्धिनश्चत्वारः सम्यग्मिथ्यात्वतदुभयानि च । अस्य सप्तविधस्य
दर्शनमोहस्य क्षपकः ।