________________
१४८
९-४९
मोहोपशमकः' 'उपशान्तमोहः मोहक्षपकः क्षीणमोहः "जिन इत्येते दश क्रमशोऽसंख्येयगुणनिर्जराः । श्रावकाद्विरतः विरतादनन्तानुबन्धिवियोजक इत्येवं शेषाः ।। ४८॥
पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४९ ॥ पुलाको बकुशः कुशीलो निर्ग्रन्थः स्नातक इत्येते पञ्च निर्ग्रन्थविशेषा भवन्ति । तत्र सततमप्रतिपातिनो जिनोक्तादागमानिर्ग्रन्थपुलाकाः । नैर्ग्रन्थ्यं प्रति प्रस्थिताः शरीरोपकरणविभूषानुवर्तिन ऋद्धियशस्कामाः सातगौरवाश्रिता अविवि क्तपरिवाराश्छेदशबल युक्ता निर्ग्रन्था बकुशाः । १°कुशीला द्विविधाः "प्रतिसेवनाकुशीलाः १२कषायकुशीलाश्च । तत्र प्रतिसेवनाकुशीलाः नैर्ग्रन्थ्यं प्रति प्रस्थिता अनियतेन्द्रियाः कथंचित्किंचिदुत्तरगुणेषु विराधयन्तश्चरन्ति ते प्रतिसेवनाकुशीलाः । येषां तु संयतानां सतां कथंचित्संज्वलनकषाया उदीर्यन्ते ते कषायकुशीलाः । ये वीतरागच्छद्मस्था ईर्यापथप्राप्तास्ते निर्ग्रन्थाः । ईर्या योगः पन्थाः संयमः योगसंयमप्राप्ता इत्यर्थः । सयोगाः शैलेशीप्रतिपन्नाश्च केवलिनः स्नातका इति ॥ ४९ ॥ १. तथास्यैवोपशमकः । २. मोहोऽष्टाविंशतिभेदः षोडश कषायाः सम्यक्त्वमिथ्यात्वसम्यग्मिथ्यात्वहास्यरत्यरतिभयशोक
जुगुप्सास्त्रीपुंनपुंसकवेदाश्च । अस्योपशमनादुपशान्तमोहः । ३. अस्यैव सकलस्य क्षपणात् । ४. क्षपितनिरवशेषमोहः । ५. चतुर्विधघातिकर्मजयनात् । ६. धर्मोपकरणादृते परित्यक्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः । ७. सुखशीलता-सातगौरवम् । तदाश्रिताः । गौरवशब्द आदरार्थः । ८. असंयमात्पृथग्भूता घृष्टजंघास्तैलादिकृतशरीरमृजाः कर्तरिकाकल्पितकेशा एवंविधः परिवारो
येषां न । ९. सर्वदेशछेदाह्नतीचारजनितशबलेन वैचित्र्येण युक्ताः । १०. अष्टादशसहस्रभेदं शीलं तत उत्तरगुणभंगेन केनचित्कषायोदयेन वा कुत्सितं येषां ते
कुशीलाः । ११. प्रतिसेवनेत्यासेवनं ज्ञानाद्यतिचाराणां भजनं तेन कुत्सितं शीलं येषां ते प्रतिसेवनाकुशीलाः । १२. कषाया संज्वलनाख्यास्तदुदयात्कुत्सितं शीलं येषाम् ।