________________
तत्त्वार्थाधिगमसूत्रम्
१४९ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः ॥ ५० ॥
एते पुलाकादयः पञ्च निर्गन्थविशेषा एभिः संयमादिभिरनुयोगविकल्पैः साध्याः भवन्ति । तद्यथा ।
संयमः । कः कस्मिन्संयमे भवतीति । उच्यते । पुलाकबकुशप्रतिसेवनाकुशीला द्वयोः संयमयोः 'सामायिके छेदोपस्थाप्ये' च । कषायकुशीला द्वयोः परिहारविशुद्धौ सूक्ष्मसंपराये च । “निर्ग्रन्थस्नातकावेकस्मिन् यथाख्यातसंयमे ॥
श्रुतम् । पुलाकबकुशप्रतिसेवनाकुशीला उत्कृष्टेनाभिन्नाक्षरदशपूर्वधराः । कषायकुशीलनिर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशीलनिर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । श्रुतापगतः केवली स्नातक इति ॥
प्रतिसेवना । पञ्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके । बकुशो द्विविधः उपकरणबकुशः शरीरबकुशश्च । तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तो बहुविशेषोपकरणाकांक्षायुक्तो नित्यं १. समो रागद्वेषविरहरूप आयो लाभः । अथवा आयो गमनं सकलक्रियोपलक्षणमेतत् ।
सर्वा च क्रिया साधो रागद्वेषवियुक्तस्य निर्जराफला । तादृशसमस्यायः समायः । तदेव
सामायिकम् । २. प्रथमापेक्षया विशुद्धतरसर्वसावद्ययोगविरतावस्थानरूपत्वं विविक्ततरमहाव्रतारोपणरूपत्वं
पूर्वपर्यायछेदपूर्वकपर्यायान्तरे उपस्थापनरूपत्वं वा छेदोपस्थापनीयस्य लक्षणम् । ३. सावद्ययोगविरतिरूपत्वे सति तपोविशेषेण विशुद्धरूपत्वं यस्मिन् सति तपोविशेषेण
सावद्ययोगविरतस्य विशुद्धता भवति तद्रूपत्वं वा परिहारविशुद्धचारित्रस्य लक्षणम् । ४. अतिसूक्ष्मसंज्वलनलोभकषायसत्त्वविषयकत्वं गुणश्रेणिसमारोहणे सति
दशमगुणस्थानवर्तिरूपत्वं वा सूक्ष्मसंपरायचारित्र्यस्य लक्षणम् । ५. प्रक्षालितसकलघातिकर्ममलपटलः । ६. अभिन्नमन्यूनम् । एकेनाप्यक्षरेणान्यूनानि दश पूर्वाणि ग्रन्थविशेषान् धारयति । ७. चतुर्दशपूर्वान् ग्रन्थविशेषान् धारयतः । ८. आचाराङ्गं प्रथमम् । ९. पञ्च समितयः तिस्रो गुप्तयः । १०.१ प्राणातिपातः । २ मृषावादः । ३ अदत्तादानम् । ४ मैथुनम् । ५ परिग्रहः इति पञ्च
मूलगुणाः षष्ठी च रात्रिभोजनविरतिः ।