________________
१५०
..- ९-५० तत्प्रतिसंस्कारसेवी भिक्षुरूपकरणबकुशो भवति । शरीराभिष्वक्तचित्तो विभूषार्थं तप्रतिसंस्कारसेवी शरीरबकुशः । प्रतिसेवनाकुशीलो मूलगुणानविराधयन्त्रुत्तरगुणेषु कांचिद्विराधनां प्रतिसेवते । कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति ।
तीर्थम् । सर्वे सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति । एके त्वाचार्या मन्यन्ते पुलाकबकुशप्रतिसेवनाकुशीलास्तीर्थे नित्यं भवन्ति शेषास्तीर्थे वाऽतीर्थे वा ।।
लिङ्गम् । लिङ्गं द्विविधम् । द्रव्यलिङ्ग भावलिङ्ग च । भावलिङ्गं प्रतीत्य सर्वे पञ्च निर्ग्रन्था भावलिङ्गे भवन्ति, द्रव्यलिङ्गं प्रतीत्य भाज्याः ॥
लेश्याः । पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । बकुशप्रतिसेवनाकुशीलयोः सर्वाः षडपि । कषायकुशीलस्य परिहारविशुद्धस्तित्र उत्तराः । सूक्ष्मसंपरायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला भवति । अयोगः शैलेशीप्रतिपन्नोऽलेश्यो भवति ।।
__उपपातः । पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे । बकुशप्रतिसेवनाकुशीलयोविंशतिसागरोपमस्थितिष्वारणाच्युतकल्पयोः । कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु देवेषु सर्वार्थसिद्धे । सर्वेषामपि जघन्या पल्योपमपृथक्त्वस्थितिषु सौधर्मे । स्नातकस्य निर्वाणमिति ।। ___ स्थानम् । असङ्खयेयानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोः, तौ युगपदसङ्खयेयानि स्थानानि गच्छतः । ततः पुलाको व्युच्छिद्यते, कषायकुशीलस्त्वसङ्खयेयानि स्थानान्येकाकी गच्छति । ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्खयेयानि संयमस्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते । ततोऽसङ्खयेयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते । ततोऽसङ्खयेयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते । अत ऊर्ध्वमकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसङ्खयेयानि स्थानानि गत्वा व्युच्छिद्यते । अत ऊर्ध्वमेकमेव स्थानं गत्वा निर्ग्रन्थस्नातको निर्वाणं प्राप्नोतीति, एषां संयमलब्धिरनन्तानन्तगुणा भवतीति ।।
इति तत्त्वार्थाधिगमे स्वोपज्ञभाष्यसमेते नवमोऽध्यायः समाप्तः ॥ ९ ॥ १. तरन्त्यनेनेति तीर्थं वचनं प्रथमगणधरो वा । २. कदाचिदतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयन्ते । मरुदेवी प्रथमतीर्थकरस्य श्रीऋषभदेवस्य माता। ३. रजोहरणमुखवस्त्रिकादि । ४. ज्ञानदर्शनचारित्राणि । ५. कदाचिद् द्रव्यलिङ्गं न निमित्तं भवति, यथा मरुदेव्यामेव ।